________________
बृहत्कल्पसूत्रे सूत्रम् - नो कप्पइ निग्गंथीणं अवंगुयदुवारिए उवस्सए वत्थए । एगं पत्थारं अंतो किच्चा एगं पत्थारं बाहिं किच्चा ओहाडियचिलिमिलियागंसि एवं णं कप्पइ वस्थए ॥सू, १४ ॥
छाया-नो कल्पते निग्रन्थीनामअपावृतद्वारके उपाश्रये वस्तुम् । एकं प्रस्तारम् अन्तः कृत्वा, एकं प्रस्तारं बहिः कृत्वा अवघाटितविलिमिलिकाके एवं खलु कल्पते वस्तुम् ॥सू०१४॥
चूर्णी - 'नो कप्पई' इति । नो-न कल्पते निम्रन्थीनां अपावृतद्वारके अपावृतं - अपगतम् आवृतम्-आवरणं कपाटादिकं यत्र तद् अपावृतम्- तादृशं द्वारं यस्य तत् अपावृतद्वारकम्, तस्मिन् तादृशे उपाश्रये वस्तुम्, कपाटाद्यावरणरहिते उपाश्रये निर्ग्रन्थीनां वस्तुं न कल्पते, यत् उपाश्रये कदाचिद् रोगादिवशाद् अप्रावरणत्वमपि तासां स्यात् अतस्तादृशे उपाश्रये साध्वीना. मावासो निषिद्धः । अथापवादमाह-प्रामान्तराद् विहृत्य सन्ध्यासमये ग्राम प्राप्तास्तत्समयेऽन्योपाश्रयाऽभावे एकरात्रं द्विरात्रं वा कल्पते तत्र तदा एष विधिः-एकं प्रस्तारं वस्त्रकटादिकम् भन्तः उपाश्रयमध्ये कृत्वा बद्ध्वा, एकं-द्वितीयं प्रस्तारं वस्त्रादिकं बहिः उपाश्रयबाह्यभागे-कृत्वा बद्धा अवघाटितचिलिमिलि काकं-अववाटिता विस्तारिता चिलिमिलिका-जवनिका 'पडदा' इति प्रसिद्धा, अथवा मशकदानो-(मच्छरदानी)- ति प्रसिद्धा यत्र तत् तस्मिन्, तत्र स्थविरां पुनरेका निर्ग्रन्थीमुपाश्रयद्वारे प्रतिहारिकारूपेण रात्रौ स्थापयेत्, एवम् अनया रीत्या खलु तत्रवस्तुं कल्पते ॥ सू० १४ ॥
निम्रन्थानां तु अन्योपाश्रयाभावे पूर्वोक्तोपाश्रयेऽपि स्थातुं कल्पते इति प्रदर्शयति'कप्पई' इत्यादि ।
सूत्रम्--कप्पइ निगंथाणं अगुयदुवारिए उबस्सए वत्थर ॥ सू० १५॥ छाया--कल्पते निर्ग्रन्थानामपावृतद्वारके उपाश्रये वस्तुम् ॥१५॥
चूर्णी -'कप्पइ' इति सूत्रं स्पष्टार्थम् । यतो निर्ग्रन्थाश्च पुरुषत्वेन ते धृतिबलादिसंपन्ना भवन्ति तस्माद् अपावृतशरीरत्वमपि तेषां न विरुध्यते ततस्तेषामन्योपाश्रयाभावेऽपावृतद्वारके उपाश्रयेऽपि वासो विहित इति ॥ सू०१५॥
अत्राह भाष्यकारः- 'अव्वाउडदुवारे' इत्यादि भाष्यम् -अबाउडदुवारे, निग्गंथीहिं न तत्य वसियव्वं । इत्थित्तणेण बंभे, रक्खा पुण दुल्लहा जत्थ ॥१६॥ अन्नबाणाभावे चिलिमिलि काउं च तत्थ वसियन्वं । निगंथाणं कप्पइ, पुरिसत्तणओ य नो हाणी ॥१७॥
छाया-अप्रावृतद्वारे निर्ग्रन्थीभिर्न तत्र वस्तव्यम् । स्त्रीत्वेन ब्रह्मणि रक्षा पुनलभा यत्र ॥१६॥