________________
चूर्णिभाष्यावचूरी उ० १ सू० १०-१२
वसतिवासविधिः ११ सूत्रम्--से गामंसि वा जाव रायहाणिसि वा एगवगडाए एगदुवाराए एगनिक्खमणपवेसाए नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा एगयओ वत्थए ।सू० १०॥
छाया-अथ ग्रामे वा यावत् राजधान्यां वा पकवगडाके एकद्वारके एकनिष्क्रमणप्रवेशके नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा एकतो वस्तुम् ॥ सू० १०॥
चूर्णी---'से गामंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां वा एकवगडाके 'वगडा' इति देशी शब्दः परिक्षेपवाची, एका वगडा-परिक्षेपः प्राकारो यस्य तत् एकवगडाकम्. तस्मिन् एकप्राकारयुक्ते, ग्रामादौ इत्यर्थः, एवम्-एकद्वारे एकमेव द्वारं यस्य ग्रामादेस्तद् एकद्वारम्, तस्मिन्-एकद्वारयुक्ते, एकनिष्क्रमणप्रवेशके एकं एकमेव निष्क्रमणं निस्सरणमार्गः, एक एव च प्रवेशः-प्रवेशमार्गो यस्य तत् एकनिष्क्रमणप्रवेशकं तस्मिन् एकनिष्क्रमणप्रवेशयुक्ते ग्रामादौ इत्यर्थः, यस्य ग्रामादेः निर्गन्थानां निम्रन्थीनां च निष्क्रमणं प्रवेशश्च एकेनैव द्वारेण भवेत् तादृशे ग्रामादौ निर्ग्रन्थानां निर्ग्रन्थीनां च द्वयानां एकतः-एकत्र वस्तुं स्थातुं न कल्पते । अत्र चतुर्भङ्गी भवति ।
__ यथा-१- एका वगडा-एकं द्वारम् । २-एका वगडा-अनेकानि द्वाराणि । ३-अनेका वाडा-एकं द्वारम् । ४-अनेका वगडा-अनेकानि द्वाराणि । अत्र चतुर्थो भङ्गः शुद्धः, स ग्राह्य इति ॥ सू० १०॥
यद्येवं तर्हि कीदृशे ग्रामादौ वस्तुं कल्पते ! इति प्रदर्शयति-'से गामंसि वा' इत्यादि ।
सूत्रम्--से गामंसि वा जाव रायहाणिसि वा अभिणिवगडाए अभिनिद्वाराए अभिणिक्खमणपवेसाए कप्पइ निग्गंथाणं वा निग्गथीणं वा एगयो वत्थए ॥१० ११॥
छाया-अथ ग्रामे वा यावत् राजधान्यां वा अभिनिवगडाके अभिनिद्वारके अभिनिष्क्रमणप्रवेशके कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा एकतो वस्तुम् ॥ सू० ११ ॥
चूर्णी -'से गामंसि वा' इति । अथ ग्रामे वा यावत् राजधान्यां वा अभिविवगडाके अभिशब्दोऽनेकार्थः, नि-शब्दो नियतार्थकः वगडाशब्दः प्राकारार्थक इति, अभि-अनेका, नि-नियता वगडा-प्राकारो यत्र तत् अभिनिवगडाक, तस्मिन् अनेकनियतपरिक्षेपयुक्त ग्रामादौ, तथा अभिनिद्वारे-अनेकद्वारयुक्ते अभिनिष्क्रमणप्रवेशके-अनेकनिष्क्रमणप्रवेशमार्गयुक्ते प्रामादौ तत्र निम्रन्थानां निर्ग्रन्थीनां च एकतः एकत्र एतादृशे एकस्मिन् ग्रामादौ वस्तु कल्पते ॥ सू० ११॥
अत्राह भाष्यकारः- 'खेत्ते' इत्यादि । भाष्यम्--खेत्ते संकुचिए खलु, निक्खमणं तह पवेसणं एग । तत्थेगस्थ ठियाणं, गमणागमणे य बहुदोसा ॥१२॥ तम्हा अणेगवगडा, अणेगदारा भवंति जत्थेव । तत्थेव निवसियव्वं, भिक्खासण्णाइमुलभत्थं ॥१३॥