________________
चूर्णिभाष्यावचूरी उ० १ सू०६
प्रलम्बप्रकरणम् ५ भावेणं भिण्णं पुण, दवेणं अविहिभिण्ण पंचमओ (५)। छट्ठो य भावभिण्णं, तंपि य दव्वेण विहिभिण्णं (६) ॥६॥
छाया-श्रमणीनां षडू भङ्गा भवन्ति च ये तान् इह प्रवक्ष्यामि । प्रथमो द्वाभ्यामभिन्नं द्रव्येण तथा च भावेन (१) अविधिविधी च द्रव्ये द्वितीयस्तृतीयश्च भावतो द्वौ भङ्गौ (३)॥४॥ भावेन च द्रव्येण च, भिन्नं अभिन्नं चतुर्थश्च (४) ॥५॥ भावेन भिन्नं पुनद्रव्येणाविधिभिन्न पञ्चमकः (५)। षष्ठश्च भावभिन्न, तदपि च द्रव्येण विधिभिन्नम् (६) ॥६॥
अवचूरी--'समणीणं' इति । समणीणं श्रमणीनां प्रलम्बग्रहणविषये षड् भङ्गा ये भवन्ति तान् इह 'पवुच्छामि' प्रवक्ष्यामि कथयिष्यामीति भाष्यकारवचनम् । तानेव दर्शयति-पढमो इत्यादि, तत्र षट्सु भङ्गेषु प्रथमो भङ्गः पूर्वोक्तं प्रलम्बं दोहि द्वाभ्यामपि प्रकाराभ्यां यथा 'दव्वेण य भावेण य' द्रव्यतो भावतश्च यत्र अभिन्नं भवेत्स प्रथमो भङ्ग इत्यर्थः (१)। अविहिविही य दवे' द्रव्ये द्रव्यविषये प्रथमविधिः, ततश्च विधिर्यथा-पूर्वोक्तं भावतो यद् अभिन्नं तत्, द्वितीये भङ्गे-अविधिभिन्नं, तृतीये भङ्गे-विधिभिन्नम् , इत्येवं 'बीओ तइओ य' द्वितीयस्तृतीयश्चेति ‘होति दो भंगा' द्वौ भङ्गौ भवतः (३)। 'भावेण यदव्वेण य भिण्णमभिण' क्रमशो यथासंख्यं भावेन भिन्नं, द्रव्येण अभिन्नम् , इत्येवं चतुर्थो भङ्गो भवति (४) । भावेणं भिण्णं पुण भावेन भिन्नमपि 'दव्वेण अविहिभिण्णं' द्रव्येण तद् अविधिभिन्नं भवति, इत्येषः 'पंचमओ' पञ्चमो भङ्गो भवति (५) । 'छट्ठो य' षष्टश्च भङ्गः-भावभिण्णं भावतो भिन्नं, तंपि य' तदपि च दवेण विहिभिण्णं' द्रव्येण विधिभिन्नम् , इत्येष षष्ठो भङ्गः (६) । एष भङ्गः भ्रमणीनां ग्राह्यो भवतीति भावः।
षण्णां भङ्गानां कोष्ठकमिदम् - १-द्रव्यतो भावतश्च अभिन्नम् । २-भावतः अभिन्नं-द्रव्यतः अविधिभिन्नम् । ३-भावतः अभिन्नं द्रव्यतः-विधिभिन्नम् । ४-भावतः भिन्न-द्रव्यतः-अभिन्नम् ५-भावतः भिन्न-द्रव्यतः-अविधिभिन्नम् । ६-भावतः भिन्नं द्रव्यतः विधिभिन्नम् ।
। इति प्रलम्बप्रकरणम् । __पूर्व प्रलम्बग्रहणविधिरुक्तः, सम्प्रति वसतिनिवासविधिमाह, तत्र पूर्वसूत्रेणाऽस्य कः सम्बन्धः ! इति सम्बन्धं प्रदर्शयति भाष्यकारः-'आहारो' इत्यादि ।