________________
जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितं
चूर्णिभाष्यावचूरीसमलङ्कृतम्
श्रीबृहत्कल्पसूत्रम् ।
मङ्गलाचरणम्
(मालिनीवृत्तम्) भविजनहितकारं, ज्ञानवित्तैकसारम् ,
कृतभवभयपारं नष्टकर्मारिभारम् । भघहरणसमीरं, दुःखदावाग्निनीरम् , ..
विमलगुणगभीरं, नौमि वीरं सुधीरम् ॥१॥
(मालावृत्तं-इन्द्रवज्रा) बृहद्भिरिदैश्च जिनैर्गणीशै,-स्तथा पुरा पूर्वधरैः प्ररूपितः । तैरेव पूर्व चरितो बृहन् यः, कल्पो बृहत्कल्प इति प्रसिद्धः ॥२॥
__ (अनुष्टुबू वृत्तम्) बृहत्कल्पस्य तस्यैव, भाष्यं चूर्ण्यवचूरिका ।
शास्त्रसारं समादाय, घासीलालेन तन्यते ॥३॥ अथेह शास्त्रादौ पूर्वमनुगमः कर्त्तव्यः, अनुगमः इति किम् ? गमनं गमः ज्ञानमित्यर्थः अनु-भगवदचनमनुसृत्य यो गमः सोऽनुगमः । स च द्विधा-नियुक्त्यनुगमः, सूत्रानुगमश्च, तत्र नियुक्त्यनुगमः पद्यादिरूपः, सोऽत्र नाधिकृतः । सूत्रानुगमः सूत्ररूपः, स चात्र प्रसङ्गप्राप्तः शास्त्रस्य गणधरैः प्रायः सूत्ररूपेण प्रथितत्वात् इति सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च स्खलितादिदशदोषविनिर्मुक्तं भवितुर्महति, ते च सूत्रोच्चारणदोषा यथा
सवलितं १ मिलितं २ चैव, व्यविद्धाक्षरमेव च ३। हीनाधिकाक्षरे द्वे ५ च, व्यत्यानेडितमेव च ६।" ॥१॥ अपरिपूर्णमित्येक ७-मपरिपूर्णघोषकम् ८
अकण्ठोष्ठविप्रमुक्त ९-मगुरुवाचनाऽऽगतम् १० ॥२॥ इति तत्र संवलितम्-यद् अन्तराऽन्तरा पदादि मुक्त्वा उच्चारणम् १ । मिलितम्-यत् अन्यान्यस्य उद्देशस्याध्ययनस्य वा आलापकादि संमेल्योच्चारणम् २ । व्याविद्वाक्षरम् यद् विपर्यस्तरत्न