________________
१५६
गृहत्कल्पसूत्रे
शेषास्तेषां कल्पस्थितिरिति स्थविरकल्पस्थितिरिति षष्ठी ६ । ति बेमि इति ब्रवीमि — सुधर्मी स्वामी जम्बूस्वामिनं प्रति कथयति—है जम्बु ! यदहं तीर्थंकरमुखात् कल्पस्थितिविषये श्रुतवान् तदेव तुभ्यं कथयामि नतु स्वमनीषया प्रकाप्य कथयामीति ॥ सू० २० ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचक - पञ्चदशभाषा कलितललित कला पालापकप्रविशुद्धगद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्रीशाहू छत्रपति कोल्हापुररानप्रदत्त" जैनाचार्य ” – पद भूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्म - दिवाकर - पूज्यश्री - घासीलाला तिविरचितायां "बृहत्कल्पसूत्रस्य” चूर्णि भाग्याऽवचूरीरूपायां व्याख्यायां
षष्ठ उद्देशकः समाप्तः ॥ ६ ॥
समाप्तं सचूर्णिभाष्यावचूरीकं
बृहत्कल्पसूत्रम् ।