________________
बृहत्कल्पसत्रे व्यापाराद्यारम्भसमारम्भवचनं वा ५ । विउसवियं वा पुणो उदीरित्तए व्युपशमितम्-उपशमितक्लेशादिकं पुनरुदीरयितुं यद् वचनं तद् , यथा-स एव त्वं यः पूर्व मामपमानितवान् , इत्यादि कथनम् ६ । एतानि षडलीकादिवचनानि न वक्तव्यानीति ॥ सू० १॥
प्रथमसत्रे शोधिः कथिता, द्वितीयसूत्रे तु शोधेः प्रायश्चित्तविधिमाह-कप्पस्स इत्यादि ।
सूत्रम् -- कप्पस्स छ पत्यारा पन्नत्ता, तं जहा-पाणाइवायस्स वायं वयमाणे, मुसावायस्स वायं वयमाणे , अदिन्नादाणस्स वायं वयमाणे, अविरइयावायं वयमाणे, अपुरिसवायं वयमाणे, दासवायं वयमाणे, इच्चेते छ कप्पस्स पत्थारे पत्थारेत्ता सम्म अपडिपूरेमाणे तहाणपत्ते सिया ॥ सू० २ ॥
छाया-कल्पस्य षट् प्रस्ताराः प्रक्षप्ताः तद्यथा-प्राणातिपातस्य वादं वदन् , मृषावादस्य वादं वदन् , अदत्तादानस्य वादं वदन्, अविरतिकावाद वदन, अपुरुषवादं वदन्, दासवादं वदन् , इत्येतान् षट् कल्पस्य प्रस्तारान् प्रस्तीयं अप्रतिपूरयन् तत्स्थानप्राप्तः स्यात् ॥सू०२॥
चूर्णी--'कप्पस्स' इति । कल्पस्य, तत्र कल्पो नाम साधूनामाचारः, तस्य तत्सम्बन्धिनां विशुद्धिकारणत्वात् छ पत्थारा पन्नत्ता षट्-षट्संख्यकाः प्रस्ताराः प्रायश्चितप्रकाराधिकारिणः प्रज्ञप्ता कथिताः, तानेव षड् भेदान् दर्शयितुमाह-तंजहे-त्यादि, तंजहा, तद्यथा पाणाइवायरस वायं वयमाणे प्राणातिपातस्य जीवविराधनलक्षणस्य वादमाक्षेपवचनं वदन् षड्जीवनिकायविराधनवाचं वदन् साधुः प्रायश्चित्तस्य प्रस्तारोऽधिकारी कथ्यते इति प्रथमः १ । मुसावायस्स वायं वयमाणे मृषावादस्य वादं वदन् द्वितीयो भेदः २ । अदिन्नादाणस्स वयं वयमाणे अदत्तादानस्य वादं वदन् तृतीयः ३ । अविरइयावयं वयमाणे अविरतिकावादं वदन् , तत्र न विद्यते विरतिर्यस्याः सा अविरतिका-कुलटा स्त्री, तस्या वादं वाचं वा वदन् मैथुनाऽऽक्षेपं कुर्वन्नित्यर्थः, इति चतुर्थः ४ । अपुरिसवायं वयमाणे अपुरुषवादं वदन् , तत्र न पुरुषः अपुरुषः नपुंसकस्तस्य वादम् 'मयं नपुंसकः' इति वाचं वदन् पञ्चमः ५। दासवायं वयमाणे दासवादं वदन् , यो न दासस्तम् 'अयं दासः' इति वदन् षष्ठो भेदः ६ । इच्चेते छ कप्पस्स इत्येतान् षद कल्पस्य इति एवं प्रकारान् एतान् पूर्वोक्तान् षट्संख्यकान् प्राणातिपाताद्याक्षेपलक्षणान् कल्पस्य साध्वाचारस्य पत्थारे पत्थारेत्ता प्रस्तारान् प्रायश्चित्तस्य प्रकारान् प्रस्तीर्य सम्मं अपडिपूरेमाणे सम्यग् अप्रतिपूरयन्–अप्रमाणयन् अभ्याख्यानकारकः साधुः सम्यक् अप्रतिपूरयन् आक्षेपार्थस्यासद्भूततया अभ्याख्यानस्य समर्थनं कर्तुमशक्तः सन् तडाणपत्ते सिया तत्स्थानप्राप्तः प्रायश्चित्तस्थानप्राप्तः प्रायश्चित्तभागी स्यात् ।
अत्र दर्दुर-शुनक-सर्प-मूषक-दृष्टान्ताः सन्ति । तत्र दर्दुरदृष्टान्तो यथा-कस्यचित् रत्नाधिकस्य साधोभिक्षाटनसमये मृतमण्डूककलेवरोपरि अकस्मात्पादः पतितः, सहागतेनाऽन्येन