________________
बृहत्कल्पसूत्रे वणादिषु किञ्चिद् एकवारम् आलेपनं कत्तुं विलेपयितुं-विशेषेण लेपयितुं अनेकवारम् न कल्पते इति सम्बन्धः । किं सर्वथैव न कल्पते ! इत्याह-'नन्नत्थ' इत्यादि, नान्यत्र गाढागाढेभ्यो रोगातङ्केभ्यः गाढागाढेभ्यः अत्यन्तप्रगाढेभ्यः भयङ्करेभ्यः रोगातङ्केभ्यः सर्पादिविषत्रणसघोघातिक्षुद्रव्रणप्रभृतिप्राणघातकरोगरूपातङ्केभ्यः अन्यत्र न कल्पते, पूर्वोक्तकारणे कल्पते इति भावः ॥ सू० ४८ ॥
पूर्वं परिवासितालेपनेनाऽऽलेपननिषेधः प्रतिपादितः, तत्प्रसङ्गात् सम्प्रति परिवासिततैलादिना गात्राभ्यङ्गनम्रक्षणनिषेधं प्रतिपादयितुमाह-नो कप्पई' इति ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा परिवासिएणं तेल्लेण वा घएण वा णवणीएण वा वसाए वा गायाई अभंगित्तए वा मक्खित्तए वा नन्नस्थ गाढागाढेहि रोगायंकेहिं । सू० ४९॥
छाया- नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेन तैलेन वा घृतेन वा नवनीतेन वा वसया वा गात्राणि अभ्यङ्गितु वा घ्रक्षितु वा, नान्यत्र गाढागाढेभ्यः
। सू० ४९ ॥ चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा परिवासितेनप्रथमप्रहरानीतचतुर्थप्रहरप्राप्तेन तैलेन वा-तिलसर्षपादिजन्यस्निग्धद्रवपदार्थजातेन, घृतेन वा प्रसिद्धेन, नवनीतेन वा-म्रक्षणेन 'मक्खन' इति भाषाप्रसिद्धेन, वसया वा स्निग्धरसविशेषेण वा गात्राणि हस्तपादमुखाद्यङ्गानि अभ्यङ्गितुं वा- प्रचुरतैलादिना उद्वर्त्तयितुम् , म्रक्षितुं वा स्वल्पेन तैलादिना म्रक्षणं कत्तु वा न कल्पते इति पूर्वेण सम्बन्धः । यद्येवं परिवासितेन तैलादिना गात्राणामभ्यङ्गनं म्रक्षणं च न कल्पते तर्हि अपरिवासितेन तत्तत्प्रहरानीतेन तत्तत्प्रहरेऽभ्यङ्गनं म्रक्षणं च निर्ग्रन्थनिम्रन्थीनां कल्पते, इत्यायातम् तत्राह-परिवासितेन अपरिवासितेन वा तैलादिना मुनीनां गात्राभ्यङ्गनं न कल्पते, तस्य शरीरविभूषासूचकत्वात्, शरीरविभूषाया भगवता निषिद्धत्त्वाच्च, उक्तं च"........कि विभूसाए कारणं" इति दशवैकालिसूत्रोक्तभगवद्वचनात् निम्रन्थनिम्रन्थीनां तैलाद्यभ्यङ्गनं न कल्पते । अथ च तैलाद्यभ्यङ्गने संयमविराधना आत्मविराधना चापि संभवेत्, तत्र संयमविराधना अभ्यङ्गितम्रक्षिते गात्रे सचित्तरजो लगति, तद्गन्धेन च पिपीलिकादित्रसप्राणिनो लगन्ति तेषां विराधनेन संयमविराधना भवेत् , पुनश्च तैलादिना चीवराणि मलिनीभवन्ति, तेषां धावनेऽधावने वा द्विधापि दोषाः समापतन्ति, यथा-यदि धाव्यन्ते तदा प्राणिनामुत्प्लावना भवेत् उपकरणशरीरयोर्बकुशत्वं भवति । यदि न धाव्यन्ते तदा निशिभक्तदोषापत्तिर्भवेत् । अभ्यङ्गितम्रक्षिते शरीरे ‘पादयोधूलिस लगतु' इति बुद्धया पादौ वस्त्रादिना पिनह्यति तेन