________________
चूर्णिभाष्यावचूरी उ०- ५ सू०४१-४६
साधुसाध्वीनां पादकेसरिकादिग्रहणविधिः १३७
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थीनाम् सवृन्तकम् - वृन्तसहितं नाल– युक्तम् अलाबु– तुम्बिकाफलपात्रम् धारयितुम् संग्रहीतुम्, परिहर्तुम् पानादौ उपभोक्तम् । सवषाणपीठफलकवदत्रापि बहिर्निस्सृतोर्ध्वाकारावलोकनेन भुक्तभोगिनीनामभुक्तभोगिनीनां निर्मन्थन M पूर्वोक्तस्मृतिकरण कौतुकादिदोषसंभवात् ॥ सू० ४० ॥ निर्ग्रन्थविषयकं विधिसूत्रमाह - ' कप्पइ' इति । कल्पते निर्ग्रन्थानां तदेव सवृन्तकं तुम्बीपात्रं धारयितुं वा परिहर्तु वा, निर्ग्रन्थानां पूर्वोक्तदोषासंभवात् ॥ सू० ४१ ॥
पूर्व सवृन्तकाऽलाबुपात्रधारणे निषेधसूत्रं विधिसूत्रं च निर्ग्रन्थीनिर्ग्रन्थानां क्रमेण प्रतिपादितम्, सम्प्रति निर्ग्रन्थीनिर्ग्रन्थद्वयमाश्रित्य तदेव सूत्रद्वयमाह - 'नो कप्पर' 'कप्पर' इत्यादि ।
सूत्रम् - नो कप्पइ निग्गंथीणं सर्बेटियं पायकेसरियं धारितए वा परिहरितए वा ।। सू० ४२ || कप्पर निग्गंथाणं सर्बेटियं पायकेसरियं धारितए वा परिहरित्तए वा ।। सू० ४३ ॥
छाया - नो कल्पते निर्ग्रन्थीनां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिह घा ।। सू० ४२ ॥ कल्पते निर्ग्रन्थानां सवृन्तिकां पात्रकेसरिकां धारयितुं वा परिह वा ॥ सू० ।। ४३ ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थीनां सवृन्तिकां वृन्तसहितां लम्बाकारेण वृन्तवद् वृन्तम् उपरिलम्बदण्डिकारूपं तेन सहितां सवृन्तिकाम् पात्रकेसरिकाम् - पात्रप्रोञ्छनार्थं प्रमार्जनिकां लम्बदण्डिकाप्रतिबद्धदशिकामयीं प्रमार्जनिकां धारयितुम् उपकरण बुद्धया पार्श्वे स्थापयितुम्, परिहर्तुम् - परिभोक्तुं न कल्पते ॥ सू० ४२ ॥ निर्ग्रन्थानधिकृत्य विधिसूत्रमाह - 'कप्पइ ' इति, कल्पते निर्ग्रन्थानां सवृत्तिकां पात्रकेसरिकां पात्रप्रोञ्छनप्रमार्जनिकां धारयितुं वा परिहर्त्तु वा कल्पते ॥ सू० ४३॥
पूर्वं पात्रकेसरिकाविषयं सूत्रद्वयं प्रतिपादितम् सम्प्रति दारुदण्डकपादप्रोञ्छनविषयं तदेव सूत्रद्वयमाह - 'नो कप्पड़' ' कप्प' इत्यादि ।
सूत्रम् - नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारितए वा परिहरितए वा ॥ सू० ४४ ॥ कप्पइ निग्गंथाणं दारुदंडयं पायपुंछणं धारितए वा परिहरितए वा ॥ सू० ४५ ॥
"
छाया -नो कल्पते निर्ग्रन्थीनां दारुदण्डकं पाप्रोज्छनकं धारयितुं वा परिहत्त ॥ सु० ४४ ॥ कल्पते निर्ग्रन्थानां दारुदण्डकं पादप्रोज्छनकं धारयितुं वा परिह वा ॥ सू० ४५ ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्थीनां दारुदण्डकं दारुमयदण्डिकायुक्तं पादप्रोञ्छनकं दारुमयदण्डिकाया अग्रभागे. ओर्णिका दशिका, बध्यन्ते तादृशं पादप्रोञ्छनार्थं
१८