SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चूर्णिमायावचूरो उ० ५ ० ६-८ उद्गतवृत्तिकभिक्षोराहारविधिः १२३ माणे असं वा दलमाणे राइभोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहाराणं अणुइयं || सू० ६-१ ॥ छाया - भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः संस्तृतो निर्विचिकित्सः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य आहारम् अहरन् अथ पश्वादेवं जानीयात् - अनुगतः सूर्योऽस्तमितो वा स यच्च आस्ये, यच्च पाणौ यच्च प्रतिग्रहे तद् विविश्ञ्चन् वा विशोधयन् वा नो अतिक्रामति, तद् आत्मना भुजानः अन्येभ्यो वा ददानो रात्रिभो जनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ ०६ ॥ चूर्णी - ' भिक्खू य' इति । भिक्षुश्च, कीदृशः स उद्गतवृत्तिकः, उगते उदयं प्राप्ते सूर्ये वृत्तिः संयमयात्रा निर्वाहक भिक्षाकरणादिव्यवहारो यस्य स उद्गतवृत्तिकः, सूयोद्गमनान्तरमेव आहारादिक्रियाकारकः, पुनश्च अनस्तमितसंकल्पः अनस्तमिते - अस्तमप्राप्ते सूर्ये सूर्यास्तमनात् प्रागेव संकल्पः आहारादिग्रहणनियमो यस्य स अनस्तमितसंकल्पः सूर्योदयानन्तरं सूर्यास्तगमनात्प्रागेव सूर्योपस्थितिकाले एवं आहारादिग्रहणनियमवान् इत्यर्थः, अत एव संस्तृतः समर्थः दिवसभोजननियमवान्, एतादृशो भिक्षुः - श्रमणः निर्विचिकित्सः निर्गता अपगता विचिकित्सा - संयमात्मकचित्तवृत्तिविशेषरूपा यस्मात् स निर्विचिकित्सः अन्यदीपादिज्योतिः प्रकाशादिकारणवशात् सूर्यउदयं प्राप्तः, नास्तं गतो वा सूर्यः इत्येवं निश्चयमापन्नः सन् अशनं वा ४ अशनादिचतुविधमाहारम् प्रतिगृह्य - आदाय आहारमाहरन् भुञ्जानः भोक्तुमारब्धः, अथ यदि पश्चात् तदनन्तरं भोजन प्रारम्भानन्तरं जानीयात् अनुगतः सूर्यः नोदयं प्राप्तः सूर्यः, वा अथवा अस्तमितो वा अस्तं प्राप्तो वा सूर्यः, इत्येवं निश्चिनुयात् जानीयात् तदा तादृश्यां परिस्थितौ स श्रमणः यच्च अशनादि आस्ये-मुखे कवलीकृत्य क्षिप्तं भवेत् यच्च अशनादिकं पाणौ - हस्ते मुखे प्रक्षेप्तुं गृहीतम्, यच्च अशनादि प्रतिग्रहे पात्रे स्थितं वर्तते तत् विविञ्चन् परिष्ठापयन् विशोधयन् पात्रं निर्लेप कुर्वन्नो अतिक्रमति तीर्थकृदाज्ञां नोल्लङ्घयति, सर्वथैव तथाविधाशनादि परिष्ठापयन् पात्रं च निर्लेपं कुर्वन् स श्रमण आराधको भवति न विराधक इति । यदि पुनः तद् अशनादिकम् आत्मना ना स्वयं भुञ्जानः आहरन्, तथा अन्येभ्यो वा श्रमणादिभ्यो ददानो भवेत् तदा अभुक्ततदाहारोऽपि रात्रिभोजनप्रतिसेवनप्राप्तः रात्रिभोजनदोषापन्नः सन् आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तं प्राप्नोतीति ॥ सू० ६-१ ॥ पूर्वं संस्तृतस्य सूर्योदय सूर्यानस्तमितविषये निर्विचिकित्सितस्य - निःशङ्कस्याहारविधिरुक्तः, सम्प्रति पुनः संस्तृतस्यैव सूर्यानुगतास्तमितविषये विचिकित्सा समापन्नस्य - संशयापन्नस्य अशनादिविषये प्रायश्चित्तमाह – ' भिक्खू य' इत्यादि । सूत्रम् - भिक्खू य उग्गयबित्तिए अणत्थमियसंकप्पे संथडिए वितिमिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारे
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy