SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ०-४ सु० ३१ परिहारकल्पस्थितस्य वैयावृत्त्यविधिः ११३ खाइमं वा साइमं वा दाउं वा अणुप्पदाउं वा, कप्पर से अन्नयर वेयावडियं करिए, तं जहा - उद्यावणं वा निसीयावणं वा तुयट्टावणं वा उच्चार- पासवण - खेल - सिंघाणविचिणं वा विसोहणं वा करित्तए, अह पुण एवं जाणिज्जा - छिन्नावासु पंथेसु आउरे झिझिए पिवासिए तबस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा, एवं से कपड़ असणं वा पाणं वा खाइमं वा साइमं वा दाउँ वा अणुप्पदाउं वा ।। सू ० ३१ ॥ छाया - परिहारकल्पस्थितस्य खलु भिक्षोः कल्पते आचार्योपाध्यायेन तद्दिवसम् एकगृहे पिण्डपातं दापयितुम्, तेन परं नो तस्य कल्पते अशनं वा पानं वा वाद्यं वा स्वाद्यं वा दातुं वा अनुप्रदातु वा, कल्पते तस्य अन्यतरद् वैयावृत्यं कर्तुम्, तद्यथा - उत्थापन वा निषादनं वा त्वग्वर्त्तनं वा उच्चार-प्रस्रवण - खेल - सिङ्घाण-विवेचनं वा विशोधनं वा कर्तुम्, अथ पुनरेवं जानीयात् - छिन्नापातेषु पथिषु आतुरो झिञ्झितः पिपासितः तपस्वी दुर्वलः क्लान्तो मूर्छेद् वा प्रपतेद् वा, एवं तस्य कल्पते अशनं वा पानं वा खाद्यं वा स्वाद्यं वा दातुं वा अनुप्रदातुं वा । सू० ३१ ॥ चूर्णी- 'परिहारकप्प हिस्स णं' इति । परिहारकल्पस्थितस्य परिहारतपणे वहतः खलु भिक्षोः कल्पते आचार्योपाध्यायेन आचार्येण उपाध्यायेन च तद्द्विसम् यस्मिन् दिवसे तपो गृहीतं तस्मिन् दिवसे तपसः प्रारम्भदिवसे इत्यर्थः एकगृहे एकस्मिन् गृहस्थगृहे पिण्डपातं - विपुलभक्तपानादिलाभं दापयितुं कल्पते इति पूर्वेण सम्बन्धः तेन परं ततः परं तदिवसानन्तरं नो कल्पते तस्य भिक्षोः परिहारकल्पस्थितस्य श्रमणस्य अशनं वा पानं वा खाधं वा स्वाद्यं वा दातुं वा एकवारं दापयितुम् अनुप्रदातुं वा वारं वारं दापयितुम् । अथ कल्पते तस्य भिक्षोः परिहारकल्पस्थितस्य अन्यतरत्—एकतरद् वैयावृत्त्यं परिचर्यारूपं ( सेवारूपं ) कर्त्तुं विधातुमाचार्योपाध्याययोः कल्पते, परिहारकल्पस्थितस्य साधोरेव तस्मिन्काले सेवा ssचार्योपाध्यायाभ्यां कर्त्तव्येति भावः । तदेवाह - 'तंजहा' इति तद्यथा - उत्थापनम् उत्थातुमशक्तस्य उत्थापनं वा निषादनं वा उपवेष्टुमशक्तस्योपवेशनम्, त्वग्वर्त्तनं पार्श्वपरिवर्तनम्, पुनश्च उच्चार - प्रस्रवण - खेल - सिङ्घाण - विवेचनम्, तत्र उच्चारः मलत्यागः, प्रस्रवणं - मूत्रम्, खेलं - श्लेष्म, सिङ्घाणं - नासिकामलम्, तत्प्रभृतीनां विवेचनंपरिष्ठापनं विशोधनम् - उच्चारादिदूषितस्य वस्त्राद्युपकरणजातस्य शरीरस्य वा प्रक्षालनादिकं कर्त्तुमाचार्योपाध्याययोः कल्पते । अथ यदि पुनस्तावद् एवं जानीयात् यत् - छिन्नापातेषु गमनागमनरहितेषु पथिषु मार्गेषु आतुरः ग्लानः संजातः, झिञ्झितः क्षुधार्त्तः बुभुक्षया पीडितः, पिपासितः तृषितः पिपासया बाधितः, एतादृशः सन् विवक्षितं ग्रामं प्राप्तुमशक्तः, यद्वा ग्रामादावपि तिष्ठन् स तपस्वी षष्ठाष्टमादिपरिहारतपः कुर्वन् दुर्बलः क्षीणशरीरो जातस्ततश्च भिक्षाचर्यया क्लान्तः - खिन्नः सन् मूर्च्छद् वा मुर्च्छामाप्नुयात् तेन प्रपतेद् वा भूमौ प्रस्खलेद् वा, एवम् - एतादृश्यामवस्थायां च १५
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy