________________
चुणिमायावचूरी उ० ४ सू० २६-२७ भिक्षोरन्याचार्योपाध्यायस्वीकरणविधिः १०७
__ पूर्व भिक्षुप्रभृतीनां संभोगनिमित्तं गणान्तरगमनं प्ररूपितम् , सम्प्रति भिक्षोरेव अन्यमाचार्यो पाध्यायं कर्तुमिच्छुकस्य विधिमाह-'भिक्खु य 'इत्यादि ।
मूलम् --भिक्खू य इच्छेज्जा अन्नं आयरियउवज्झायं उदिसावित्तए, णो से कप्पइ अणापुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं आयरियउवज्झायं उदिसावित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं आयरियउवज्झायं उदिसावित्तए, ते य से नो वियरेज्जा एवं से नो कप्पइ अण्णं आयरिय उवज्झायं उदिसावित्तए, नो से कप्पइ तेसिं कारणं अदीबित्ता अण्णं आयरियउवज्झायं उदिसावित्तए, कप्पइ से तेसिं कारणं दीवित्ता अण्णं आयरियउवज्झार्य उद्दिसावित्तए ॥ सू० २६॥
___छाया-भिक्षुश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुं नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायं उद्देशयितुम्, कल्पते तस्य आपृच्छय आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितम. ते च तस्य वितरेयुः पवं तस्य कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम् तेच तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचर्योपाध्यायम् उद्देशयितुम् , नो तस्य कल्पते तेषां कारणम् अदीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥स्०२६॥
चूर्णी-'भिक्खू य' इति । भिक्षुश्च इच्छेत् अन्यम् स्वकीयाचार्योपाध्यायात् परं गच्छान्तरवर्त्तिनम् आचार्योपाध्यायं ज्ञानदर्शनचारित्रवृद्धयर्थम् उद्देशयितुम् आत्मनो गुरुत्वेन व्यवस्थापयितुं यदि इच्छेत् तदा नो तस्य कल्पते अनापृच्छय अपृष्ट्वा, कम् ? इत्याह-आचार्य यावत् गणा: वच्छेदकम् अन्यमाचार्योपाध्यायम् उदेशयितुम् । कथं कल्पते ? इत्याह-कल्पते तस्य आचार्यादिकमापृच्छय अन्यमाचार्योपाध्यायम् उद्देशयितुम् । तत्रापि यदि ते आचार्यादयो वितरेयुः अन्याचार्योपाध्यायस्वीकरणाज्ञां दद्युः एवं तदाज्ञाप्राप्तौ सत्यां तस्य कल्पते अन्यमाचार्योपाध्यायम् उद्देशयितम् , यदि ते नो वितरेयुः अज्ञां न दद्युः तदा नो कल्पते अन्यमाचार्योपाध्यायमुद्देशयितम् । पुनश्चाज्ञाप्राप्तावपि नो तस्य कल्पते कारणम्-अन्याचार्योपाध्यायस्यात्मनो गुरुत्वेन व्यवस्थापने हेतुम् अदीपयित्वा-अप्रकाश्य कारणमनिवेद्य अन्यमाचार्योपाध्यायम् उद्देशयितुम् । अपि तु कल्पते तस्य भिक्षोः तेषाम् स्वकीयाचार्यादीनां कारणम् अन्याचार्योपाध्यायस्वीकरणे कमपि हेतुं दीपयित्वा-प्रकटीकृत्य अन्यमाचार्योपाध्यायस्वीकरणे कमपि हेतुं प्रदर्थ अन्यमाचार्योपाध्यायम् उद्देशयितुम् -आत्मनो गुरुत्वेन व्यवस्थापयितुं कल्पते इति पूर्वेण सम्बन्धः ।
अत्रायं भावः-स्वकीयमाचार्योपाध्यायं त्यक्त्वा अन्यमाचार्योपाध्यायमुदिशेत् तत्र ज्ञानस्य दर्शनस्य चारित्रस्य च प्रधानकारणेन भवितव्यम् , अन्यथा मनोमालिन्यादिक्षुद्रकारणमाश्रित्य यदि