________________
बृहत्कल्पसूत्रे
सुखेन सूत्रार्थमाहणयोग्याः प्रज्ञप्ताः आख्याताः । तानेवाह - 'तं जहा ' तद्यथा - अदुष्टः- तत्त्वं प्रज्ञापकं वा प्रति द्वेषवर्जितः, स चावश्यं श्रुतं संज्ञापनीयः द्वेषराहित्येन शुद्धमनोवृत्तित्त्वात्तस्य श्रद्धयोपदेशप्रतिपत्तेः । अमूढः गुणदोषविवेकशाली, सोऽपि सूत्रार्थी संज्ञापनीयः, तस्य गुणदोषाभिज्ञत्वेन सत्यश्रद्धत्वात् । तृतीयमाह - अव्युद्माहितः दृढीकृत सम्यग्बोधवान् प्रदत्तसूत्रार्थयोरविपरीतत्वेन ग्राहकत्वात् । एवमेते त्रयः पुरुषाः सुसंज्ञाप्याः ॥ सू० १३ ॥
पूर्वं दुष्टतादिदोषदूषितभावस्य प्रव्राजनादिकं प्रतिषिद्धम्, सम्प्रति ग्लानप्रकरणे परिष्वज - नानुमोदनस्वरूपस्याशुभभावस्य निवारणं कर्त्तुं प्रथमं निर्ग्रन्थीसूत्रमाह - 'निग्गंथिं च णं' इत्यादि । सूत्रम् - निग्गंथिं च णं गिलायमाणिं पिया वा भाया वा पुत्तो वा पलिस्सएज्जा तं च निग्गंथी साइज्जेज्जा, मेहुणपडि सेवणपत्ता, आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्घाइयं ॥ सू० १४ ॥
छाया --निर्ग्रन्थींच खलु ग्लायन्तों पिता वा भ्राता वा पुत्रो वा परिष्वजेत् तं निर्ग्रन्थी स्वादयेत् मैथुन प्रतिसेवनप्राप्ता, आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० १४ ॥
चूर्णी - 'निग्रथिं च णं' इति । निर्ग्रन्थी च खलु साध्वीम् ग्लायन्तीम्-शरीरस्य क्षीणतया ग्लानिं हर्षक्षयरूपां शारीरमानस क्लिष्टतामनुभवन्तीं तस्याः पिता वा सांसारिकपिता, निर्ग्रन्थताँ प्राप्तो वा पिता, भ्राता वा सांसारिकभ्राता निर्धन्थतां प्राप्तो वा भ्राता, पुत्रः सांसारिकपुत्रो वा निर्ग्रन्थतां प्राप्तो वा पुत्रः, 'पलिस्सएज्जा' इति परिष्वजेत - दौर्बल्येन भूमौ पतन्तीं धारयन् उपवेशयन् उत्थापयन् वा शरीरे स्पर्श कुर्यात्, तं च पुरुषस्पर्श सा निर्ग्रन्थी मैथुन प्रतिसेवनप्राप्ता मैथुनसेवनेच्छां प्रतिपन्ना सती स्वादयेत् स्पर्शसमुद्भूतमैथुनसेवन भावनया अनुमोदेत 'सुखदोऽयं पुरुषस्पर्शः' इति कृत्वा मनसि हर्षं विदध्यात् तदा सा साध्वी चातुर्मासिकं परिहारस्थानम् अनुद्घातिकं गुरुकं प्रायश्चित्तम् आपद्यते प्राप्नोति गुरुकप्रायश्चित्तभागिनी भवतीत्यर्थः । ननु 'पुरिसपहाणो धम्मो' पुरुषप्रधानो धर्मः इति शास्त्रेऽनुमतं ततः प्रकृतसूत्रे प्रथमं निर्ग्रन्थसूत्रमभिधातव्यं भवेत् किन्तु प्रकृते पुनर्निर्ग्रन्थीसूत्रमेव प्रथममभिहितमिति क्रिमत्र तत्त्वम् ? इति चेत् सत्यम्, पुरुषप्रधान एव धर्मो भवति किन्तु स्त्रियाश्चञ्चलस्वभावत्वात्, धृतिबलविकलत्वाच्च निर्मन्ध्या एव प्रथमं प्ररूपणं कृतमिति ॥ सू० १४ ॥
पूर्वसूत्रे ग्लानायाः निर्मन्ध्याः पित्रादिना उत्थापने पुरुषस्पर्शनेन विकारो जायते, तस्यानुमोदनलक्षणस्याशुभभावस्य प्रतिषेधः प्रतिपादितः, सम्प्रति ग्लानस्य निर्ग्रन्थस्य तथाविधाशुभावस्य प्रतिषेधं प्रतिपादयितुमाह- 'निग्गंथं च णं' इत्यादि ।
सूत्रम् - निग्गंथं चणं गिलायमाणं माया वा भगिणी वा धूया वा पलिस्सएज्जा, तं च निग्गंथेसाइज्जेज्जा मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारद्वाणं अणुग्घाइयं ॥ सू० १५ ॥