________________
૨
बृहत्कल्पसूत्रे
भावः २ । साम्प्रतमव्यवशमितप्राभृतं व्याचष्टे - यः स्वल्पेऽपि परुषभाषणादौ अपराधेऽत्यन्तक्रोधसमुद्घातं याति एवं क्षामितो न प्रशाम्यति प्रत्युत क्षामितमप्यपराधजातं पुनः पुनः समुदीरयति स खलु अव्यवशमितप्राभृतो व्यपदिश्यते, तस्य वाचनादाने ऐहलौकिकस्नेहसत्कारादिपरित्यगः, पारलौकिकवैरानुबन्धकर्मबन्धसंभवश्चेति द्विधाव्यहितकरं तद्बाचनादानं संपद्यते इति न तादृशाय वाचना दातव्येति भावः ॥ सू० १० ॥
पूर्वसूत्रे अविनीतादित्रितयस्य श्रुतार्थवाचनादानं प्रतिषिद्धम्, सम्प्रति तद्वैपरीत्येन विनीता - दित्रितयस्य तद्वाचनादानमनुज्ञापयति- 'तओ कप्पंति वाइत्तए' इत्यादि ।
सूत्रम् - तओ कप्पंति वाइत्तए, तंजहा - विणीए, नोविगइपडिबद्ध, विओसवियपाहुडे ॥ सू० ११ ॥
छाया - त्रयः कल्पन्ते वाचयितुम्, तद्यथा-विनीतः, नोविकृतिप्रतिबद्धः, व्यव - शमितप्राभृतः । सू० ११ ॥
चूर्णी - 'तओ' इति । त्रयः पुनर्वक्ष्यमाणस्वरूपाः शिष्याः वाचयितुं - सूत्रार्थी ग्राहयितुं श्रमणानां कल्पन्ते । तद्यथा - विनीतः आचार्यादेर्वन्दनादिविनययुक्तः, नोविकृति प्रतिबद्धः घृतादिरसलोलुपतावर्जितः, व्यवशमितप्राभृतः - व्यवशमितम् - क्षमापनादिना उपशमितं प्राभृतं नरकपातनोपायनमिव प्राभृतं तीव्रक्रोधलक्षणं यस्य स व्यवपशमितप्राभृतः स्वापराधक्षमापन - परापराधक्षमनसमर्थः उपशान्तक्रोध इत्यर्थः । एते त्रयः विनीत - विकृत्यप्रतिबद्ध - व्यपशमितप्राभृताः पुरुषाः श्रुतार्थौ वाचयितुं श्रमणानां कल्पन्ते इति सूत्राशयः । विनयेन अभ्यस्तीकृता विद्या लोकद्वये फलवती भवति, तत्रास्मिन् लोके साधुजनसमाजराजसभादौ विनयगृहीतविद्यया समादृतः पूजितश्च भवति, यशः कीर्ति - ख्याति - सम्मान-प्रतिष्ठादिकं च लभते परलोके च विनयप्राप्तविद्यया सम्यग्ज्ञानदर्शनचारित्रलक्षणरत्नत्रयविभूषितो लब्धिसंपन्नो भगवदाज्ञाराधकः सन् निःश्रेयसं प्राप्नोति । विकृत्यप्रतिबद्धो हि घृतादिरसलोलुपता रहितत्वेन एकाग्रमनसा श्रुतार्थी गृह्णाति, तेन तत् श्रुतार्थग्रहणं हृदये सुचारुतया परिणमति, ततः सः सम्यकुतया ज्ञानदर्शनचारित्राराधको भवति, तस्य श्रुतार्थवाचने वाचनादातुस्तीर्थकराज्ञाभङ्गादयो दोषा न भवन्तीति । एवं व्यवशमितप्राभृतस्यापि उपशान्ततीव्रक्रोधत्वेन शान्तमनोभावस्य प्रदत्ता वाचना सम्यक्तया परिणमति तेन सा सुगतिबोधिलाभादिकमामुष्मिकं फलं प्रापयतीति सूत्रोक्तानां त्रयाणां सूत्रार्थतदुभयवाचना दानं श्रमणानां कल्पते, यथा उर्वराभूमौ उप्तानि बीजानि फलितानि भवन्ति तथैवेतेषां श्रुतार्थदानं सफलं भवतीति भावः ॥
ननु पूर्वसूत्रे अविनीतादित्रयाणां वाचनादानस्य प्रतिषिद्धतया तेनैव कथनेन अर्थापत्तिन्यायात् तद्विपरीतानां विनीतादीनां वाचनादानं स्वयं सिद्धमेव, विपक्षार्थस्यानुक्तस्यापि सिद्धिलाभा