________________
८५
बृहत्कल्पस्त्रे 'मेहुणं पडिसेवमाणे' मैथुनं प्रतिसेवमानः, तत्र मैथुनं मिथुनं स्त्रीपुंसयुग्मलक्षणं, तस्य भावः कर्म वा मैथुनम्-अब्रह्म तत् प्रतिसेवमानो द्वितीयोऽनुद्घातिकः २ । तृतीयमाह-राइभोयणं भुंजमाणे' रात्रिभोजनं भुनानः-पूर्व सैन्यप्रकरणे सैन्यरुद्धे स्थाने भिक्षाचर्यार्थ गतः साधुः कदाचित् तां रजनौं तत्रैव वाहयेत् तत्र तेन एकाकित्वेन रात्रिभोजनं कृतं स्यात् तेन स रात्रिभोजनस्वभावो भवेत् ततः रात्रिभोजनं रात्रौ अशनाद्याहरणं भुजानः कुर्वाणस्तृतीयोऽनुद्घातिको भवति । एषां त्रयाणामपि अनुद्घातिकं गुरुमासिकं प्रायश्चित्तं समापयेतेति ॥ सू० १॥
एतदेव विशदयति भाष्यकारः–'उग्घाय०' इत्यादि।
भाष्यम्--उग्घायअणुग्घाया, दव्वे खेत्ते य काल भावे य । दव्वे हलिद्दरागो, किमिरागो होज्जऽणुक्कमसो। ३ ॥ खेत्ते य किण्ह-पत्थर-भूमी काले य संतरं इयरं । भावे य अठपगडी, भव्वस्स य तह अभव्वस्स ॥४॥ छाया--उद्घातानुद्घातौ, द्रव्ये क्षेत्रे च काले भावे च । द्रव्ये हरिदारागः, कृमिरागो भवेदनुक्रमशः ॥ ३ ॥ क्षेत्रे च कृष्ण-प्रस्तर-भूमिः, काले च सान्तरमितरम् । भावे चाष्ट प्रकृतयः, भव्यस्य च तथा अभव्यस्य ॥४॥
अवचूरी-'उग्घाय०' इति । अत्र ह्रस्वत्वाद् दीर्घत्ववद् उद्घातिकाद अनुद्घातिकस्य प्रसिद्धिरिति कृत्वा द्वयोरपि उद्घातिकानुद्घातिकयोव्यादिभेदतः प्रत्येकं चतुर्विधत्वं प्रतिपाद्यते'उग्याइय०' इत्यादि । उद्घातानुद्घातौ उद्घातिकम् अनुद्घाति कंचेति द्वे अपि प्रत्येकं चतुर्विधे भवतः, तथाहि-द्रव्ये क्षेत्रे काले भावे च द्वे अपि भवतः, तत्र द्रव्य इति द्रव्यत उद्घातिको हरिद्रारागः, तस्य सुखेनापनेतुं शक्यत्वात् , अनुद्घातिकं कृमिरागः अपनेतुमशक्यत्वात् १ । क्षेत्रे इति क्षेत्रतः कृष्णप्रस्तरभूमिः, क्रमशः उद्घातिकं, कृष्णभूमिः हल कुलिकादिभिः सुखेन क्षोदयितुं शक्यत्वात् , अनुद्घातिकं प्रस्तरभूमिः हलादिना क्षोदयितुमशक्यत्वात् २ । काले इति कालतः उद्घातिकं यत्र सान्तरम्अन्तरन्तः समयव्यवधानेन प्रायश्चित्तदानं भवति, अनुद्घातिकम् इतरमिति निरन्तरं यत्र समयसातत्येन प्रायश्चित्तदानं भवति ३ । भावे इति भावतः-उद्घातिकं यथा भव्यस्याष्टौ प्रकृतयः या उद्घातयितुं, शक्या भवन्ति, अनुद्धातिकं यथा अभव्यस्याष्टौ प्रकृतयः या उद्धातयितुमशक्या भवन्ति यतो यथा भव्यो येन शुभाध्यवसायेन ज्ञानावरणादिकर्मणां क्षपणं करिष्यति ताशो भावोऽभव्यस्य कदाचिदपि नोत्पद्यते इत्यतस्तस्य भावोऽनुरातः, कोद्घातकरणस्यासामर्थ्यात् , अनेनैव कारणेन तस्य कर्माणि अनुद्घातिकानि कथ्यन्ते । अत्र च प्रायश्चित्तानुद्घातिकस्याधिकार इति हस्तकर्मादीनां त्रयाणां विरुद्धाचरणानां सेवनत एते त्रयोऽपि अनुद्घातिकाः अनुद्घातिकमायचित्तयोग्या भगबता प्रदर्शिताः, एषां मूलगुणानामेव भङ्गसद्भावादिति ॥ ३-१॥