SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ २० बृहत्कर वर्त्तते तत्र यथानन्दमपि जघन्यमध्यमयथालन्दकालं यथावसरम् अवग्रहो भवति न तत्र कोऽपि अनुज्ञापयितव्यः, एषां स्थानानां पूर्वमेव सागारिकरा नादिनाऽनुज्ञापितत्वादेव, अत्र सागारिकराजावग्रहौ बोध्यौ । अत्रायं विवेकः - पूर्वोक्तेषु स्थानेषु यथायोग्यमवग्रहो भवति यथा-अनु रिकानामष्टौ हस्ता अवग्रहे, परिखायां चत्वारो रत्नयः, वृतिस्वामिनो वृतेः परमपि हस्तमानमवग्रहो बोध्यः । शेषः पुनः सर्वोऽपि नृपतेरवग्रहो मन्तव्यः । एतदवग्रहपरिमाणं बोध्यम् । अत्र उच्चारादीनि स्थाननिषदनादीनि वा कुर्वन् श्रमणो यदि कुडयादीनां हस्ताभ्यन्तरे करोति तदा तेन गृहपत्यवग्रहो मनसि भावनीयः हस्तात्पुनरधिकं बहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहो बोध्यः, अटव्यामपि यवसौ राजा भवति तदा तस्यैवावग्रहं श्रमणः स्मरेत्, यदि चासौ राजा तत्राटव्यां न प्रभुस्तदा शकेन्द्रस्यावग्रहं मनसि चिन्तयेदिति ॥ सु० ३० ॥ ॥ इत्यक्ग्रहमकरणम् ॥ पूर्व श्रमणस्य निवासविषयोऽवग्रहः प्रतिपादितः तत्र, राजावग्रहोऽप्यन्तर्भूत इति साम्प्रतं विरुद्धराजसैन्यातिक्रमणे निर्मन्थनिर्ग्रन्थीनां भिक्षाचर्यानिवासादिविधिं प्रतिपादयति'से गामस्ल वा' इत्यादि । सूत्रम् -- से गामस्स वा जाव सग्रहाणीए वा बहिया सेण्णं सनिविट्टं पेहाए hers fairण वा निग्रंथीण वा तद्दिवसं भिक्खायरियाए गंतुं पडिनियत्तए । नो से कप्पइतं रयर्णि तत्थेव उवाइणावित्तर, जो खलु निम्गंथो वा निम्गंथी वा तं स्यणि तत्क्षेत्र उवाइणावे, उवाइणावंत वा साइज्जइ, से दुहओवि अइकममाणे आवज्जइ चाउ मासियं परिहारट्ठाणं अणुग्घाइयं ॥ सू० ३१ ॥ छाया - अथ ग्रामस्य वा यावद् राजधान्या वा बहिः सैन्यं संनिविष्टं प्रेक्ष्य कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा तं दिवर्स भिक्षाचार्यायै गत्वा प्रतिनिवर्त्तितुम् । नो तस्य कल्पते तां रजनीं तत्रैव अतिक्रामयितुस् । यः खलु निर्ग्रन्थो वा निग्रेन्थी वा तां रजनीं तत्रैव अतिक्रामयति अतिक्रामयन्तं वा स्वदते स द्विघातोऽपि अतिक्रामन् आपद्यते चातुर्मासिकं परिहारस्थानमनुद्धातिकम् ॥ सू० ३१ ॥ चूर्णी - ' से गामस्स वा' इत्यादि । 'से' अथ - अवग्रह प्रकरणानन्तरं सम्प्रति ग्रामस्य वा आसन्तग्रामस्य 'जाव' इति यावत् यावत्प्रदेनात्र नगरादिपदानां संग्रहपाठोऽस्यैव प्रथमोदेशके षष्ठसूत्रो को ग्रामादारभ्य राजधानीपर्यन्तः सर्वोऽपि वाच्यः, अत्रोक्तपदानामर्थोऽपि तत्रैवाऽवलोकनीयः । राजधान्या वा बहिः - बहिर्भागे सैन्यम् अन्यनृपतेः सैन्यदलं ग्रामादिविजयार्थं संनिविष्टम् आगत्य स्थितं प्रेक्ष्य दृष्ट्वा कल्पते निर्ग्रन्थानां वा निर्ब्रम्धीनां वा तत्तद्ग्रामादिस्थितानां तद्दिवसमभिव्याप्य तस्मिन् दिवसे इत्यर्थः भिक्षा पर्यायै भिक्षाचर्यार्थं तत्र आसन्नग्रामादौ गत्वा प्रतिनिवर्त्तितुं प्रत्यागन्तुं कल्पते किन्तु 'से' तस्य भिक्षाचर्यागतस्य निर्ग्रन्थस्य निर्ग्रन्ध्या वा नो कल्पते न
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy