________________
चूणिभाष्यावचूरी उ०- ३ सू० २४-२६
प्रातिहारिक शय्यादेर्ग्रहणाऽर्पणविधिः ७५
छाया - कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं सागारिकसत्कं शय्यासंस्तारकम् आदाय विकरणं कृत्वा संप्रव्रजितुम् ॥ सू० २४ ॥
चूर्णी -- ' कप्प' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा प्रातिहारिकं सागारिकसत्कं शय्यासंस्तारकमादाय आनीय विकरणं यथारूपेण आनीतं तथारूपेणैव तत्रैव स्थापनं कृत्वा प्रत्रजितुं विहारं कर्त्तुं कल्पते । अयं भावः - यानि तृणानि संस्तरणार्थं यस्मात् स्थानात् प्रस्तृत तृणपुञ्जात् राशीकृततृणपुञ्जाद्वा आनीतानि तानि कार्यसमाप्तौ गमनसमये प्रस्तृततृणपुञ्जादानीतानि प्रस्तृततृणपुञ्जे, राशीकृततृणपुञ्जादानीतानि राशीकृततृणपुञ्जे एवं पूर्वं यथास्थितानि तादृशान्येव प्रत्यर्पणसमयेऽपि कृत्वा स्थापनीयानि । एवं पीठफलकमपि यथाऽऽनीतं - यद्यानयनसमये तदूर्ध्वं स्थापितं भवेत्तत् प्रत्यर्पणसमयेऽप्यूर्ध्वमेव स्थापनीयम्, तिर्थस्थापितं भवेत्तदा तिर्यगेव स्थापनीयम्, भित्तिपार्श्वादानीतं भवेत्तदा प्रत्यर्पणसमयेऽपि भित्तिपार्श्वे एव स्थापनीयम्, यं पृष्ट्वा चानीतं तमेव पुनः संसूच्य स्थापनीयम्, येन गृहस्थस्याऽप्रतीतिकं न भवेत् । एवं कृत्वैव साधोर्ग्रामान्तरं गन्तुं कल्पते, प्रातिहारिकवस्तुप्रत्यर्पणस्य एतादृशविधिकत्वात् । एवं करणे श्रमण आज्ञाभङ्गादिदोषभागू न भवति, न वा प्रायश्चित्तभाग् भवतीति भावः ॥ सू० २४ ॥
पूर्वं सागारिकसत्कशय्यासंस्तारकादेः प्रत्यर्पणविधिः प्रोक्तः, यदि तत् शय्यासंस्तारका दि चोरादिना चोरितं भवेत्तदा किं कर्त्तव्यम् इति तद्विधिं प्रदर्शयति - 'इह खलु' इत्यादि ।
सूत्रम् - इह खलु निम्गंथाण वा निग्गंथीण वा पाडिहारिए सागारियसंतए सेज्जासंथारए विप्पणसिज्जा से य अणुगवेसियन्वे सिया, से य अणुगdeeमाणे लभेज्जा तस्सेव पडिदायव्वे सिया, से य अणुगवेस्समाणे नो लभेज्जा एवं से कप्पर दोच्चपि उम्म अणुन्नवित्ता परिहारं परिहरित्तए । ० २५ ॥
छाया - इह खलु निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं वा सागारिकसत्कं शय्यासंस्तारकं विप्रणश्येत् तच्च अनुगवेषयितव्यं स्यात्, तच्च अनुगवेष्यमाणं लभेत ( तदा तस्यैव प्रतिदातव्यं स्यात्, तच्च अनुगवेष्यमाणं नो लभेत एवं तस्य कल्पते द्वितीयमपि अवग्रहम् अनुज्ञाप्य परिहारं परिहर्तुम् ॥ सू० २५ ॥
चूर्णी – 'इह खलु' इति । इह - जिनशासने खलु निर्ग्रन्थानां निर्ग्रन्थीनां वा यत् प्रातिहारिकं प्रत्यर्पणवचसा समानीतं सागारिकसत्कं गृहस्थसत्ताकं शयासंस्तारकं पीठफलकादिकं वा किमपि वस्तु विप्रणश्येत् चोरादिना अपह्रियेत तदा तत् शय्या संस्तारकम् अनुगवेषयितव्यं स्यात् झटिति श्रमणेन तस्य गवेषणम् इतस्ततः पृच्छादिना शोधनं कर्त्तव्यं स्यात् । यदि गवेष्यमाणं तत् लभेत तदा तस्यैव गृहस्थस्य यत्सकाशादानीतं भवेत्तस्यैव प्रतिदातव्यं स्यात् प्रत्यर्पणीयं भवेत् तस्मै प्रत्यर्पयितव्यमिति भावः । यदि तच्च शय्यासंस्तारकमनुगवे - ष्यमाणमपि न लभेत न प्राप्नुयात् एवम् एतादृशेऽवसरे 'से' तस्येति सूत्रे जातावेकवचनं तेन