________________
निशीथसूत्रे
पाञ्चमासिकादित आरम्य मासिक पर्यन्तानि पञ्चापि सूत्राणि व्याख्येयानीति विरम्यते || सू० ३७|| तदेवं पूर्वोक्तेषु षाण्मासिकादिषु षट्सु सूत्रेषु द्वयर्थो मासः प्रायश्चित्तत्वेन प्रतिपादितः । अथ यो द्वमासिकपरिहारस्थानप्रस्थापितः सन् तन्मध्ये यदि मासिकपरिहारस्थानं प्रतिसेवते तद्विषयकं प्रायश्चित्तविधिमाह-- 'दिवड्ढमासि' इत्यादि ।
सूत्रम् - दिवमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअहं सहेउं सकारणं अहीणमइरित्तं तेण परं दो मासा ॥ सू० ३८ ॥
छाया - इयर्धमासिक परिहारस्थान
४५४
प्रस्थापितोऽनगाोऽन्तरा मासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा सार्थं सहेतु सकारणमहोनमतिरिक्त तेन परं द्वौ मासौ ॥ सू० ३८ ।
चूर्णी - 'दिवड्डमा सियं' इत्यादि । 'दिवड्ढमासियं' द्वयर्धमासिकम् द्वितीयोऽर्धो यत्र स द्वयर्थः स मासी यत्र तद् द्वयर्थमासिकम् ' परिहारद्वाणं' परिहारस्थानं पापप्रयोजकं कर्मानुष्ठानं तत्प्रति 'पविए प्रस्थापितः तादृशकर्म विनाशाय तादृशप्रायश्चित्तकरणाय नियोजितः 'अणगारे ' अनगारो - भिक्षुकः 'अंतरा' अन्तरा-मध्ये 'मासियं परिहारहाणं' मासिकं परिहारस्थानम् 'पडिसेवित्ता' प्रतिसेव्य - परिहारस्थानप्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत् तस्य 'अहावरा पक्खिया आरोवणा' अथापरा पाक्षिकी पञ्चदशदिवसप्रमाणात्मिका आरोपणा प्रायश्चित्तदानरूपा प्रस्तुततपः स्थापितप्रायश्चित्तादधिकं पाक्षिकं प्रायश्चित्तं दातव्यम् । तच्च 'आइमज्झावसाणे' आदिमध्यावसाने 'सअहं सहेउं सकारणं अहीणमइरित्तं' साथै सहेतुकं सकारणमहीनमतिरिक्तम् प्रतिसेवितानुसारं सर्वे प्रायश्चित्तरूपेण दातव्यं न किमपि त्यक्तव्यम् 'तेण परं दो मासा' तेन परं द्वौ मासौ ततः परं सर्व द्वौ मासौ प्रायश्चित्तरूपेण भवतः । चर्धमासिकप्रायश्चित्ते आरोपणायाः पक्षः संमेल्यते तदा परिपूर्णौ द्वौ मासौ जायेते इति भावः ||
सूत्रम् - दोमासियं परिहारद्वाणं पट्ठविए अणगारे अंतरा मासिय परिहाराणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअक्षं सहेडं सकारणं अहीणमइरितं तेण परं अड्डा इज्जा मासा || सू० ३९ ॥
छाया - द्वैमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा मासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा पाक्षिकी आरोपणा आदिमध्यावसाने सार्थं सहेतु सकारणम् अहीनमतिरिक्त तेन परम् साधतृतीयो मासौ ॥ सू० ३९ ॥
શ્રી નિશીથ સૂત્ર