________________
४४६
निशीथसूत्रे 'ठवणा' इत्यादि, स्थापनापरिहारनानात्वं-स्थापनापरिहारविषये भेदो ज्ञातव्यः, अयं भावःअधस्तनपूर्वसूत्रेपु आदितः षोडशसूत्रपर्यन्तसूत्रेषु परिहारतपो न कथितम् , इह तु सप्तदशसूत्रादनन्तरसूत्रेषु परिहारतपसः प्रतिपादनं कृतम् , इत्येतावानेव विशेष इति ।। सू० १८-२०॥
इदानी मासादौ प्रस्थापिते अन्तरा यदन्यदिनमासादिपापस्थानं प्रतिसेवते तत्र यस्मिन् पापस्थाने दिवस ग्रहणप्रमाणं प्रस्थापितं स्थापना रूपं भष्यते तदेव दर्शयति-'छम्मासिय इत्यादि ।
सूत्रम्-छम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं सवीसइराइया दो मासा ॥ सू० २१॥
छाया पाण्मासिकं परिहारस्थान प्रस्थापितोऽनगारः अन्तरा द्वमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनातिरिक्तं तेन परं सविंशतिरात्रौ द्वौ मासौ ॥ सू० २१॥
चूर्णी --- 'छम्मासियं' इत्यादि । 'छम्मासियं' पाण्मासिकम् तत्र षडिति संख्याविशेषलक्षणं मासिकम्, तत्र मानानि समयावलिकादीनि असतीति मासः, मासो मासान्तकः कालः परिमाणमस्येति मासिकम्, षभिर्मासै निष्पन्नं यत् तत् पाण्मासिकम् 'परिहारद्वाणं' परिहारस्थानम्-परिहारस्य स्थानं परिहारस्थानम्-सावद्यकर्मणामनुष्ठानलक्षणम् तत्प्रति ‘पट्टविए' प्रस्थापितः अशुभकर्मणां क्षयार्थ स्थापितः प्रायश्चित्तं वहमान इत्यर्थः 'अणगारे' अनगार:-श्रमणः श्रमणी वा 'अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता' अन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य तत्र अन्तरा मध्ये समारब्धप्रायश्चित्तस्य मध्ये इत्यर्थः द्वैमासिकम्-मासद्वयेन संपादनयोग्यं परिहारस्थानं पापस्थानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रायश्चित्तकरणसमयेऽपि द्वैमासिकप्रायश्चित्तस्थानस्य प्रतिसेवनं कृत्वा 'आलोएज्जा' आलोचयेत् कृतपापकर्मण आलोचना गुरवे दर्शयेत् । तत्र मायारहितभावेन आलोचनां कुर्वतः 'अहावरा वीसइराइया आरोवणा' अथापरा विंशतिरात्रिकी आरोपणा, तत्र अथेत्ययमानन्तर्यार्थको निपातः, अपरा-मासद्वयादन्या, यदि अयं पाण्मासिकं तपो वहन् मध्ये द्वैमासिकं परिहारस्थानं प्रतिसेवते प्रतिसेव्य मायारहितमालोचयेत् तदा गुरुः तस्मै प्रतिसेवितमासद्वयोपरिविंशतिरात्रिकी आरोपणा कर्तव्या विंशतिरात्रिसम्पादनीयप्रायश्चित्तं वर्धयेदिति भावः । घण्णां मासानां त्रिभागं कृत्वा तत्र भागद्वयं परित्यजेत् , एक भागं मासद्वयप्रमाणं प्रायश्चित्तं पुनरपरं दद्यात् तदेवं मासद्वयसम्पाद्यं प्रायश्चित्तं संमीलयित्वा विंशतिरात्रिकं प्रायश्चित्तं दद्यात् ।
શ્રી નિશીથ સૂત્ર