________________
निशीथसूत्रे
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी बा 'उस्सेइम वा' उत्सेकिमं वा - वाष्पितगोधूमपिष्टतिलादि येन जलेन सिच्यते - घाव्यते तज्जलम्, अथवा - येन जलेन पिष्टकादिसंश्लिष्टं पात्रम् 'कठौती' तिलोकप्रसिद्धं प्रक्षाल्यते तज्जलं वा 'संसेइमं वा' संसेकिमं वा वाष्पितवास्तुकतन्दुलीयकादिपत्रशाकं संसिच्यते तज्ञ्जलम् । 'चाउ लोगं वा तण्डुलोदकं वा तण्डुलघावनजलं येन जलेन तण्डुला धाव्यन्ते पाकात्पूर्वं तादृशं जम् 'वारोदगं वा' वारोदकं वा - वारः घटः येन जलेन गुडादिघटः प्रक्षाल्यते तादृशं जलं वादक - मिति कथ्यते ‘तिलोदगं वा' तिलोदकं वा तिलधावनजलम् 'तुसोदगं वा' तुषोदकं वा-तुषघावनजलम् ब्रीह्यादिप्रक्षालितजलमित्यर्थः ' जवोदगं वा' यवधावनजलं येन जलेन यवाः प्रक्षाल्यन्ते तादृशं जलमित्यर्थः, 'आयामं वा' आचामं वा अवस्त्रावण सिद्धतण्डुलजलम्, अथवा उष्णलौहं यस्मिन् जले शीतलीक्रियते तादृशं जलमाचाममिति कथ्यते 'सोवीरं वा' सौवीरं वा काञ्जिकजलमित्यर्थः 'अंबकंजियं वा' आम्रकाञ्जिकं 'सुद्धवियडं वा' शुद्धविकटं वा शुद्धम् उष्णं जलम, एतादृशं सर्वं पानकजातम् यदि 'अहुणाधोयं' अधुनाधौतं - तत्कालधौतम् 'अणंबिलं' अनाम्लम् यस्य रसम आम्लं न जातं भवेत् 'अपरिणयं' अपरिणतम् - शस्त्रापरिहतम् 'अवुकं - तजीवं' अत्युत्कान्तजीवम् - अव्युत्क्रान्ता अनपगता: जीवा यस्मात् तत् तथा, जीवेनाविप्रमुक्तं सचेतनं मिश्रं वेत्यर्थः ‘अविद्धत्थं' अविध्वस्तम् यत् वर्ण- गन्ध-रस-स्पर्शैर्न विध्वस्तम् - वर्णादिभ्यो न चलितं तत् स्वभावावस्थमित्यर्थः, एतादृशं पूर्वोक्तविशेषणविशिष्टं जलं भवेत्तज्जलं यः श्रमणः श्रमणी वा 'पडिग्गाहेइ' प्रतिगृह्णाति - दीयमानं स्वीकरोति तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वीकुर्वन्तं श्रमणान्तरं यः स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५० ॥
सूत्रम् - जे भिक्खू अप्पणो आयरियत्ताए लक्खणाई वागरेइ वागतं वा साइज्जइ ॥ सू० २५१ ॥
छाया - यो भिक्षुरात्मन आचार्यतायै लक्षणानि व्याकरोति व्याकुर्वन्तं वा स्वद चूर्णी - जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो आत्मनः स्वस्य 'लक्खणाई' लक्षणानि - करचरणस्थानि चक्राङ्कुशादीनि, तथा स्वदेहस्य मानो - न्मान-प्रमाण-संस्थान-संहननादीनि वा 'आयरियत्ताए' आचार्यतायै स्वस्याचार्यपद प्राप्त्यर्थम् 'वागरेइ' व्याकरोति - अन्यस्मै कथयति, चक्राङ्कुशतिलमशादिविषये एवं कथयति-यानि आचार्यस्य खणानि भवन्ति तानि मम शरीरेऽपि लभ्यन्ते तेनाहमाचार्यो भविष्यामीति । कथनप्रकारो यथा" अमुगायरियसरिच्छाई लक्खणाईं णं पासह महंपि । एरिस लक्खणत्तो, य होइ अचिरेण आयरिओ" ॥१॥
३९४
શ્રી નિશીથ સૂત્ર