________________
३७८
निशीथसूत्रे कदाचित् भ्रमात् प्रमादाद्वा जायेत तदा अवश्यमेव क्षमापनादिकं कुर्यात, अकरणे च साधुः प्रायश्चित्तभाग् भवेदिति ॥ सू० ४० ॥
सूत्रम्-जे भिक्खू पमाणाइरित्तं वा गणणाइरित्तं वा उवहिं धरेइ धरतं वा साइज्जइ ॥ सू० ४१ ॥
छाया-यो भिक्षुः प्रमाणातिरिक्तं वा गणनातिरिक्तं वा उपधिं धरति धरन्तं वा स्वदते ॥ सू० ४१ ॥
चूर्णी-'जे भिक्खु' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पमाणाइरित्तं वा' प्रमाणातिरिक्तं वा यस्य यादृशं प्रमाणम् एकद्वयादिस्तत् प्रमाणं यद्भगवताऽऽज्ञप्तं ततोऽतिरिक्तम् , तथा 'गणणाइरितं वा' गणनातिरिक्तं वा गणनया-संख्ययाऽधिकम् । तत्र प्रमाणातिरिक्तं वस्त्रम्-यस्य वस्त्रस्य यावत्कं प्रमाणं हस्तादिमापनरूपं शास्त्रे प्रतिपादितं तस्मादधिकं प्रमाणातिरिक्तं वस्त्रं कथ्यते तथाहि--"कप्पइ निग्गंथाणं तओ संघाडीओ धरित्तए वा परिह रित्तए वा । कप्पइ निग्गंथीणं चत्तारि संघाडीओ धरित्तए वा परिहरित्तए वा। कप्पइ निग्गंथाणं बावत्तरिहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा। कप्पइ निग्गंथीणं छण्णउइहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा"- कल्पते निम्रन्थानां तिस्रः संघाटीः धर्तु वा परिहत्ते वा । कल्पते निर्ग्रन्थीनां चतस्रः संघाटीः धर्तु वा परिहतु वा ? कल्पते निर्ग्रन्थानां द्वासप्ततिहस्तपरिमितं वस्त्रं धतु वा परिहर्तु वा । कल्पते निर्ग्रन्थीनां षण्णवतिहस्तपरिमितं वस्त्रं धर्तुं वा परिहर्तुं वा, इति च्छाया । एवं गणनातिरिक्तम् , गणना वस्त्रविषया पात्रविषयेति द्विविधा भवति, तत्र वस्त्रविषया गणना पूर्वमुक्तैव, पात्रविषया गणना प्रोच्यते, सा च गणना एकद्वयादिसंख्या पात्राणामेकद्वयादिरूपेण वा संख्या शास्त्रे प्रतिपादिता तदतिरिक्तं गणनातिरिक्तं कथ्यते, तथाहि-"कप्पइ निग्गंथाणं तिन्नि पायई चउत्थं उंदगं धारित्तए । कप्पइ निग्गंथोणं चत्तारि पायाई पचमं उंदगं धारित्तए ॥” इति शास्त्रोक्तग़णनातोऽधिकम् ‘उवहिं' उपधिम्-वस्त्रपात्रादिकं यो भिक्षुः 'धरेई' स्वयं धरति परद्वारा वा धारयति तथा-'धरेंतं वा साइज्जई' धरन्तं प्रमाणगणनातिरिक्तमुपधि धारयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चि त्तभागी भवति ।। सू० ४१॥
सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सवीए सहरिए सओसे सउदए सउत्तिंगपणगदगमट्टियमक्कडासंताणगंसि दुव्बद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले उच्चारपासवणं परिट्ठवेइ परिहवेंतं वा साइज्जइ ॥ सू० ४२॥
શ્રી નિશીથ સૂત્ર