SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ३७६ 'गार थिएहिं वा सद्धिं' गृहस्थैर्वा सार्द्धम् एकस्मिन् भाजने एकपङ्क्तौ वा समुपविश्याशनादिचतुर्विधमाहारजातम् 'भुंजइ' भुङ्क्ते - आहरति आहारयति वा तथा 'भुंजंतं वा साइज्जइ' भुञ्जानं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ ३८ ॥ सूत्रम् — जे भिक्खू अण्णउत्थिएहिं वा गारस्थिएहि वा सद्धि आवेदिय परिवेदिय भुंजइ भुंजंतं वा साइज्जइ ॥ सृ० ३९॥ छाया -यो भिक्षुरन्ययूथिकैर्वा गृहस्थैर्वा सार्द्धमावेष्टय परिवेष्टय भुङ्क्ते भुञ्जानं वा स्वदते || सू० ३९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'अण्णउस्थिरहिं वा' अन्यतीर्थिकैर्वा तापसादिभिः 'गारत्थि एहिं वा सर्द्धि' गृहस्थैर्वा सार्द्धम् ' आवेढिय' आवेष्ट्य तत्र आवेष्टनमेक द्वित्रिदिशासु परतीर्थिकादिभिरावेष्टितो भूत्वा तथा-'" -' परिवेढिय' परिवेष्ट्य, तत्र परिवेष्टनं सर्वदिक्संबंधि दिशासु विदिसासु वा स्थितैः परतीर्थिकादिभिः परिवेष्टितो भूत्वा अशनपानादिकम् 'भुंजइ' भुङ्क्ते भोजनं करोति कारयति वा तथा 'भुंजंतं वा साइज्जइ' भुञ्जानं वा अन्यतीर्थिकैरावेष्टितः परिवेष्टितो भूत्वा अशनादिकं भुञ्जानं श्रमणान्तरं स्वदते - अनुमोद स प्रायश्चित्तभागी भवति अन्यतीर्थिकादीनां समक्षमाहारकरणस्य निषिद्धत्वात् । अत्राह भाष्यकारः- 6 भाष्यम्-- अण्णतित्थिगिहत्थेर्हि, सद्धि संपरिवेदिओ । आहारं भुंजई जो उ, आणाभंगाइ पावइ ॥ छाया - अन्यतीर्थिगृहस्थैः सार्द्ध परिवेष्टितः । आहारं भुङ्क्ते यस्तु, आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरि : - यो हि श्रमणः श्रमणी वा अन्यतीर्थिकैः तापसादिभिः गृहस्थैः पूर्वपरिचितैरपरिचितैर्वा, पूर्वसंस्तुतैः पश्चात्संस्तुतैर्वा, तत्र पूर्वसंस्तुता मातापितृभगिनोभ्रात्रादयः, गृहस्थावस्थापरि चिता अन्ये वा, पश्चात् संस्तुताः श्वशुरश्वश्यालकादयः साध्वस्थापरिचिता वा, तैः सार्द्धम् संपरिवेष्टितः आवेष्टितः परिवेष्टितो वा भूत्वा यः कश्चित् श्रमणो मोहादिवशात् अशनादिकं भुङ्क्ते तथा भुजानं श्रणान्तरमनुमोदते स आज्ञा भङ्गादिकान् दोषान् प्राप्नोति तस्मात् एभिः सह न भोक्तव्यम्, न वा भुञ्जानमनुमोदयेत् प्रवचनहोलनासंभवादिति ॥ सू० ३९ ॥ सूत्रम् -- जे भिक्खू आयरिय उवज्झायाणं सेज्जासंथारगं पारणं संघटित्ता हत्थेणं अणणुण्णइत्ता पधारेमाणे गच्छ गच्छंतं वा साइज्जइ ॥ सू० ४० ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy