________________
३२८
निशीथसूत्रे
वा स्वदते || सू०७३|| यो भिक्षुर्वनीपर्कापिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू०७४ || यो भिक्षुः चिकित्सा पिण्डं भुङ्क्ते भुञ्जानं वा स्वदते || सू० ७५ ॥ यो भिक्षुः क्रोधपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ७६|| यो मिथुर्मानपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ७७ ॥ यो भिक्षुर्मायापिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ७८ || यो भिक्षुलभण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सु०७९ || यो भिक्षुर्विद्यापिण्डं भुङ्क्ते भुञ्जानं वा स्वदते । सू० ८० ॥ यो भिक्षुर्मन्त्रपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ८१|| यो भिक्षुर्योगपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ८२|| यो भिक्षु चूर्णपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते || सू०८३॥ चूर्णी एवम् - दूतीपिण्डादारभ्य चूर्णपिण्डपर्यन्तानि त्रयोदश सूत्राणि व्याख्येयानि, तत्र'दुईपिंडे भुंजइ' दूतीपिण्डं भुङ्क्ते, तत्र यो गृहस्थस्य सन्देशं ग्रामाद् ग्रमान्तराद्वा ग्रामं ग्रामान्तरम् आनयति नयति स दूतः, एतत्कार्ये त्रिया मुख्यत्वमिति दूतीशब्दोऽत्र प्रयुक्तः, तद्योग्यकार्यं कृत्वा आहारादिपिण्डो गृह्यते स दूतीपिण्डः तं भुङ्क्ते ॥ सू० ७१ || 'निमित्तपिंडे भुंजइ' निमित्तपिण्डः अतीतानागतवर्त्तमानकालिकं शुभाशुभं कथयित्वा पिण्डप्रहणं निनित्तपिण्डस्तं भुङ्क्ते ॥सू० ७२ || 'आजीबियपिंड भुजइ' आजीविका पिण्डम्, आजीविकापिण्डः स य आजीविकार्थ जीवननिर्वाहार्थम् 'अहं भोगवंशीयः, उग्रवंशीयः' इति स्वस्य जातिकुलादिकं प्रदर्य गृह्यते, तं भुङ्क्ते ॥ सू० ७३ || 'वणीमगपिंडं' वनीपकपिण्डम्, वनीपकपिण्डः स यः 'अहं साधुरस्मि, यदि भवान् मह्यं भिक्षांन दास्यति तदा को दास्यति ?' इत्येवं दीनशब्दमुच्चार्य पिण्डो गृह्यते तं भुङ्क्ते ॥७४॥ 'तिमिच्छपिंडं' चिकित्सा पिण्डम्, चिकित्साविण्डः स यः गृहस्थानां रोगादौ औषधदानादिरूपां चिकित्सां कृत्वा गृह्यते, तं भुङ्क्ते ॥ सू० ५|| 'कोहपिंडं' क्रोधपिण्डम्, क्रोध पिण्डः सः यः क्रोधपूवर्क गृह्यते स तं भुङ्क्ते ।। सू०७६ || 'माणपिंडं' मानपिण्डम्, मानपिण्डः सः योऽभिमानपूर्वकं गृह्यते, यथा 'इदमाहारजातं मह्यं देहि नान्यत् ग्रहीष्यामि किमहं साधारणोऽस्मि यदेतादृशमाहारजातं गृह्णामि' इत्यादिरूपाभिमानपूर्वकं गृह्यते स तं भुङ्क्ते ॥ सू०७७॥ 'मायापिंडं' मायापिण्डम्, मायापिण्डः सः यः मायया कपटेनालीकादिभाषणं कृत्वा गृह्यते तं भुङ्क्ते ||सू० ७८|| 'लोभपिंडं' लोभपिण्डम्, लोभप्रिण्डः सः यः लोभवशात् प्रणीतरसयुक्तो गृह्यते, तं भुङ्क्ते ||सू० ७९ || 'विज्जापिंडं' विद्यापिण्डम्, विद्यापिण्डः सः, यो रोहिणीप्रभृतिस्त्रीदेव ताधिष्ठिता ससाधना वा विद्या, तत्प्रयोगं कृत्वा गृह्यते, तं भुङ्क्ते ॥ सू० ८०॥ ' मंतपिंडं' मन्त्रपिण्डम्, मन्त्रपिण्डः सः, यः मन्त्रः पुरुषदेवताधिष्ठितो मारणमोहनवशीकरणोच्चाटनादिरूपः तत्प्रयोगेण गृह्यते, तं भुङ्क्ते ॥ सू० ८१ ॥ ' जोगपिंडं' योगपिण्डम्, योगपिण्डः सः यः गर्भाधानकरणगर्भस्थिरीकरण-वशीकरणादियोगं कृत्वा गृह्यते तं भुङ्क्ते ॥ ८२ ॥ 'चुण्णपिंडं' चूर्णपिण्डम्, चूर्णपिण्डः चूर्णम् - कुट्टितानेक वस्तु संमिश्रण रूपम्, यत्प्रयोगेण प्रक्षेपणपानादिरूपेण वशीकरण गर्मस्थिरीकरणादिकं जायते तत्प्रयोगकरणपूर्वकं गृह्यते तं भुङ्क्ते, भुञ्जानं वा अनुमोदते स आज्ञा भङ्गादिदोषभागी भवति ॥ सू० ८३ ॥
શ્રી નિશીથ સૂત્ર