________________
३२०
निशीथसूत्रे सूत्रम्-जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा निहिं पवेएइ पवेएतं वा साइज्जइ ॥सू० ३४॥
छाया-यो भिक्षुरन्ययूथिकानां वा गार्हस्थिकानां वा निधिं प्रवेदयति प्रवेदयन्तं वा स्वदते ॥ सू० ३४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारत्थियाण वा' गाहस्थिकानां-गृहस्थानां वा 'निहिं पवेएइ' निधिम् प्रवेदयति, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातमित्यर्थः प्रवेद. यति, मन्त्रादिना ज्ञात्वा भूमिनिहितं द्रव्यं कथयति प्रकाशयतीति तथा 'पवेएंतं वा साइज्जइ' प्रवेदयन्तं कथयन्तं श्रमणान्तरं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति ।
अत्राह भाष्यकार:भाष्यम्-धाउं सुवण्णजणयं, निहिं वा पवेयए य जे भिक्खू ।
गिहिणण्णतिथियाणं सो पावइ आणभंगाई ॥ छाया-धातुं सुवर्णजनकं निधिं वा प्रवेदयेत् यो भिक्षुः ।
गृहिणामन्यतीथिकानां स प्राप्नोति आज्ञाभङ्गादिम् ॥ अवचरिः- यो भिक्षुः श्रमणः श्रमणी वा धातुं यस्मिन् धम्यमाने सुवर्णादिकं पतति स धातुविशेषः, तं पूर्वसूत्रोक्तं त्रिविधमपि, तथा निधि वा, तत्र निधानं निधिः निहितं स्थापितं द्रविणजातं गृहिणां गृहस्थानामन्यतीथिकानां तापसादीनां प्रवेदयेत् कथयेत् स श्रमणः आज्ञाभङ्गादिकान् दोषान् प्राप्नोति, तत्र धातुस्निप्रकारको भवति पाषाणरसमृत्तिकाभेदात्, तत्र यत्र पाषाणे धम्यमाने सुवर्णादिकं पतति स पाषाणधातुः १, येन धातुजलेनासिक्तं ताम्रादिकं सुवर्णा दिकं भवति स रसधातुरिति कथ्यते २, या तु मृत्तिका योगयुक्ता ध्मायमाना वा सुवर्णादि भवति स मृत्तिकाधातुः ३ । तं धातुं, तथा निधिः स्थापितद्रव्यजातं, स निधिः मनुष्यदैवतैः अधिष्ठितोऽनधिष्ठितो वा भवति, तथा निधिजले वा भवति, स्थले वा भवति, तत्र यो निधिः स्थले भवति स द्विविधः निक्षिप्तो वा अनिक्षिप्तो वा, सर्वोप्ययं निधिः स्वरूपतो द्विप्रकारको भवति कृतरूपोऽकृतरूपश्च । धातुनिधिकथने इमे दोषाः-धातूनामग्निना धमने षड्जीवनिकायविराधना भवति । निधिदर्शने तस्य देवाधिष्ठितत्वेनानेके विघ्नाः समुद्भवन्ति । राज्ञा ज्ञाते राजदण्डमपि प्राप्नुयात् । तत्र चक्रध्वजो राजा दृष्टान्तः
___तथाहि-आसीत् मगधदेशे पुष्पपुरनगरे चक्रध्वजो राजा, तेन राज्ञा चक्राङ्किता अनेके दीनारा आनाय्य निधानत्वेन स्थापिताः निधानस्थापनानन्तरं बहुदिनानि व्यतीतानि तदनन्तरं
શ્રી નિશીથ સૂત્ર