SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३१० निशीथसूत्रे वा स्वाध्यायादिकरणम् 'चेएइ' चेतयते 'चेएतं वा साइज्जई' चेतयमानं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९॥ सूत्रम्-जे भिक्खू कुलियंसि वा भितिसिवा सिलंसि वा लेलुंसि वा अंतलिक्खजायंसि वा दुब्बद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले ठाणं वा सेज्ज वा णिसेज्जं वा णिसीहियं वा चेएइ वा एतं वा साइज्जइ १० छाया-यो भिक्षः कुडये वा भित्तौ वा शिलायां वा लेलुके वा अन्तरिक्षजाते वा दुर्बद्ध दुनिक्षिप्ते अनिष्कम्पे चलाचले स्थनं वा शय्यां वा निषद्यां वा नैषेधिकों वा चेतयते चेतयमानं वा स्वदते ॥ सू० १०।। चूर्णी-'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कुलियंसि वा' कुड्ये वा तृणभित्तिरूपकुड्ये वा 'भित्तिसि वा' भित्तौ वा पाषाणमृत्तिकानिर्मितभित्तौ गिरिनदीतटरूपायां वा 'सिलंसि वा' शिलायां वा धान्यादिपेषणबृहत्पाषाणखण्डे वा 'लेटुंसि वा' लेलुके वा लोष्टे वृहन्मृत्पिण्डे 'अंतलिक्खजायंसि वा' अन्तरिक्षजाते वा-आकाशभागनिर्मितमञ्चकादौ वा, कथम्भूते कुड्यादिके ? तत्राह-'दुव्वद्धे' इत्यादि । 'दुब्बद्धे' दुर्बद्धे सम्यग्रूपेण बन्धनरहिते कुड्यादौ 'दुण्णिक्खित्ते' दुनिक्षिप्ते असम्यगूरूपेण स्थापिते 'अणिक्कंपे' अनिष्कंपे-कम्पनादिधर्मविशिष्टे अत एव 'चलाचले' चलाचले-अस्थिरे कुड्यादौ यः श्रमणः श्रमणी वा 'ठाणं वा' स्थानं वा 'सेज्जं वा' शय्यां वा 'निसेज्जं वा' विषयां वा 'णिसीहियं वा' नैषेधिकी वा 'चेएई' चेतयति 'चेएंतं वा साइज्जइ' चेतयमानं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू०१०॥ सूत्रम्-जे भिक्खू संधंसि वा फलिहंसि वा मंचंसि वा मंडवंसि वा मालंसि वा पासायंसि वा हम्मतलंसि वा दुब्बद्धे दुण्णिक्खित्ते अणिकंपे चलाचले ठाणं वा सेज्जं वा णिसेज्ज वा निसीहियं वा चेएइ चेएतं वा साइज्जइ ।। सू० ११॥ छाया-यो भिक्षुः स्कन्धे वा परिघे वा मञ्चे वा मण्डपे वा माले वा प्रासादे वा हर्म्यतले वा दुर्बद्ध दुनिक्षिप्ते अनिष्कम्पे चलाचले स्थानं वा शय्यां वा निषधां वा नैषेधिकी वा चेतयते चेतयमानं वा स्वदते ॥ सू० ११ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'खंधसि वा' स्कन्धे वा, तत्र स्कन्धो नाम एकभूमप्रासादविशेषः, अथवा स्कन्धो नाम गृहम् શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy