SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ AAAAAAAN ३०८ निशीथसूत्रे छाया--पृथिव्यादिस्थानं तु यावन्मात्रमुदाहतम् । तत्र स्थानादिकं कुर्यात् आज्ञाभङ्गादि प्राप्रोति । अवचूरिः---प्रथमसूत्रादारभ्याष्टमसूत्रपर्यन्तसूत्रेषु यत् यत् पृथिव्यादिकस्थानमधिकरणत्वेन उदाहृतम् कथितम् सचित्तपृथिवीत आरभ्य मर्कटसन्तानकान्तस्थानं सूत्रे यावन्मात्रं यावत्प्रमाणकं कथितम् तेषु सचित्तपृथिव्यादिस्थानेषु स्थानादिकं स्थानशय्यानिषद्यास्वाध्यायादिकं यः कुर्यात् स श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनालक्षणान् दोषान् प्राप्नुयात् लभते । अथ पृथिव्यायेकेन्द्रियाणां संघट्टनादिकरणे यादृशी वेदना भवति तां वेदनां दृष्टान्तद्वारेण दर्शयति तथाहि-यथा कश्चित् स्वभावतो दुर्वलो जराजीणों रोगेणापि आक्रान्तो भवेत् , स च वृद्धो बलवता तरुणेन त्रिंशद्वर्षायुष्केन युगलपाणिना सर्ववलेनाक्रान्तो भवेत् तदनन्तरं तस्य वृद्धस्य तरुणेनाक्रान्तस्य यादृशो वेदना भवति पृथिव्यायेकेन्द्रियजीवानामुपरि स्थानादिकरणेन ततोऽप्यधिकतरा अनन्तगुणा वेदना भवति, परन्तु अव्यक्तत्वात् चर्मचक्षुषा ज्ञातुं न शक्यते, यानि च जीवस्य चिह्नानि तानि पृथिव्यायेकेन्द्रियजीवेषु न व्यक्तानि यथा गाढनिद्रानिद्रितपुरुषे मूछिते वा सुखदुःखचिहानि अव्यक्तानि, एवं पृथिव्यायेकेन्द्रियजीवेष्वपि चैतन्यं चैतन्यचिह्न चातीवाव्यक्तम् तेनायं जीव इति न सकलसाधारणपुरुषेण ज्ञातं भवति, परं केवलं केवलज्ञानिना एव दृश्यते, तदुपदेशात् श्रद्धालुः परोपि जानाति, अश्रद्धालवो वस्तुतत्त्वं न जानन्ति । तेषामेव ज्ञानाय पृथिव्यायेकेन्द्रियाणामुपयोगसाधकं दृष्टान्तं दर्शयामि, तद्यथा-रूक्षे भोजने अतिशयितः सूक्ष्मः स्नेहगुणो विद्यते यतः तादृशभोजनकरणेनापि शरीरस्योपचयो भवति परन्तु अव्यक्तत्वात् सत्त्वस्नेहगुणो न लक्ष्यते, एवं पृथिव्यामपि विद्यते सूक्ष्मः स्नेहः परन्तु अतिसूक्ष्मत्वात् न दृश्यते यतः पृथिव्यादिषु स तनूस्थितोऽल्पः तेन तेषां प्रबलस्नेहकायें हस्तादिशरीराणां चालनादिकं कर्तुमशक्यं भवति । एकेन्द्रियजीवानां क्रोधादिकाः परिणामा अपि भवन्ति साकारोऽनाकारश्चोपयोगः, तथा सातादिका वेदनाः, एते सर्वेऽपि भावाः सूक्ष्मत्वात् अनतिशयस्यानुपलक्षिता भवन्ति यथा संज्ञिनां पर्याप्तानां क्रोधादयः परिणामा भवन्ति, तेन च परिणामेन संज्ञिनो जीवा आक्रोशादिकं कुर्वन्ति त्रिवलीचालनादिकं च कुर्वन्ति परन्तु संज्ञिजीववत् एकेन्द्रियाः प्राबल्येन तादृशकार्यकरणं प्रति समर्था न भवन्ति, एतावानेव भेदः संज्ञिजीवेभ्य एकेन्द्रियजीवानाम्, किन्तु चेतनायोगात् सर्वमेव भवति पृथिव्यायेकेन्द्रियजीवानामपि, किं बहुना यथा वयमनुभवं कुर्मः तथैव पृथिव्यायेकेन्द्रियजीवा अपि कुर्वन्ति तेपि सुखकारणे समुपस्थिते सुखिनो भवन्ति दुःखकारणे. जाते दुःखमप्यनुभवन्ति, क्रोधादिकम् आक्रोशादिकमपि कुर्वन्ति, किन्तु यथा उदुम्बरपुष्पमन શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy