SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३०४ निशीथसूत्रे छाया- यदि भवेच्च स्थलमार्गः, जलेन गच्छेत् नैव पादाभ्याम् । नैव दूरोत् नावं, तत्राऽपायानां संभवतः अवचूरिः-यदि ग्लानस्य साधोयावृत्यादिके गाढतरे कारणे समुपस्थिते सति गमनमावश्यकं भवेत् तदा यदि तत्र गमनार्थ स्थलमार्गो दूरतरोऽपि भवेत् तर्हि जलेन नद्यादिजलमार्गेण पादाभ्यां नैव गच्छेत् . नैव च नावं दूरोहेत् नौकोपरि नोपविशेत् , किमर्थमित्याह तत्र णदाभ्यां नौकया वा गमने-अपायानां विघ्नानां बहूनां संभवात् । अपाया द्विविधाः- संयमापायाः आत्मापायाश्च । तत्र नदीजले पादाभ्यां गमने अप्कायस्य पादप्रहारेण तत्रस्थितत्रसकायानां मण्डूकमत्स्यादीनां च विराघनारूपा अनेके संयमापाया भवन्ति । जले गर्तादी पाद. पतनात् तत्समये जलपूरस्यागमनादिना चानेके आत्मापाया अपि भवन्ति, एवं नौकया गम नेऽपि विज्ञेयम् , तथाहि-नौकायाः संचरणेन जलविलोडनं भवति तेनाप्कायस्य तदधोगतानां त्रसाणां मण्डूकमत्स्यलघुजलचरादिजीवानां च विराधना भवति तेन संयमापायसंभवः, तथा नौकाया ब्रुडनभञ्जनादिना-आत्मापायसंभवः, ततः संयमात्मविराधनादोषसद्भावात् दूरतरस्थलमार्गसंभवे साधुर्जलमार्गेण नो गच्छेदिति भावः ॥ सू० ४३॥ सूत्रम्--तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्याइयं ॥सू० ४४॥ ॥ निसीहज्झयणे बारसमो उद्देसो समत्तो ॥१२॥ छाया तं सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ॥४४॥ ॥ निशीथाध्ययने द्वादश उद्देशः समाप्तः ॥१२॥ चूर्णी-'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः, तत उद्देशकादौ कथितत्रसपाणजातिबन्धनादारभ्योदेशकान्ते वर्णितनदीसंतरणपर्यन्त पायश्चित्तस्थानमध्यात् एकमनेक सर्व वा प्रायश्चित्तस्थानं 'सेवमाणे' सेवमानः समाचरन् श्रमणः श्रमणी वा 'आवज्जई' आप द्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् प्रायश्चित्तस्थानम् 'अणुग्घाइयं' अनुद्घातिकम् -लधुमासिकमित्यर्थः ॥ सू० ४४॥ इति श्री-विश्वविख्यात-जगद्वल्लभप्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापक प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् द्वादशोदेशकः समाप्तः ॥१२॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy