________________
३०२
निशीथसूत्रे सूत्रम्-जे भिक्खू दिया आलेवणजायं पडिग्गाहेत्ता दिया कायंसि वणं आलिंपेज्ज वा विलिंपेज्ज वा आलिंपंतं वा विलिंपंतं वा साइज्जइ ॥ सू० ३७॥
छाया--'यो भिक्षुदिवा आलेपनजातं प्रतिगृह्य दिवा काये व्रणमालिम्पेत् वा विलिम्पेत् वा आलिम्पन्तं वा विलिम्पन्तं वा स्वदते ॥सू० ३७॥
चूर्णी--'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दिया' दिवा-दिवसे 'आलेवणजायं पडिग्गाहेत्ता' आलेपनजातम् विलेपनद्रव्यं प्रतिगृह्य गृहीत्वा रात्रौ स्थापयित्वा 'दिया' दिवा-दितीयदिवसे 'कायंसि वर्ण' काये शरीरे शरीरावयवे वा व्रणं पामाभगन्दरादिकम् आलिंपेज्ज वा' आलिम्पेत् वा 'विलिंपेज्ज वा विलिम्पेत् वा 'आलिंपंतं वा विलिंपंतं वा साइज्जई' आलिम्पन्तं वा विलिम्पन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ३७॥ एवं पूर्वोक्तसूत्रं संगृह्य चत्वारि सूत्राणि-आलेपनजातविषयाण्यपि गोमयसूत्रवदेव व्याख्येयानि ॥सू० ३८-३९-४०॥
सूत्रम्-जे भिक्खू अन्नउथिएण वा गारथिएण वा उवहिं वहावेइ वहावेतं वा साइज्जइ ॥ सू० ४१॥
___ छाया -यो भिक्षुरन्ययूथिकेन वा गृहस्थेन वा उपधिं वायति वाहयन्तं वा स्वदते ॥सू० ४१॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणो वा 'अन्नउत्थिएण वा' अन्ययूथिकेन वा अन्यतीथिंकेण पुरुषेण स्त्रि यावा 'गारथिएण वा' गृहस्थेन वा श्रावकेण तद्भिन्नेन वा येन केनापि, श्राविकया तद्भिन्नया वा 'उवहिं वहावेइ' उपधिं स्वकीयवसपात्रादिकम् वाहयति एकस्मात् स्थानात् स्थानान्तरं प्रापयति 'वहावतें वा साइज्जइ' वाह्यन्तं प्रापयन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, गृहस्थादिना कस्यापि कार्यस्य कारणे साधोरविरतिदोषप्रसङ्गात् ॥ सू० ४१॥
सूत्रम्-जे भिक्खू तन्नीसाए असणं वा पाणं वा खाइमं वा साइमं वा देइ देंते वा साइज्जइ ॥ सू० ४२॥
छाया---यो भिक्षुः तन्निश्रयाऽशन वा पान वा खाद्यं वा स्वाद्य वा ददाति ददतं वा स्वदते । सू० ४२॥
चूर्णी-'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'तन्नीसाए' तन्निश्रया-उपधिवहनादिकार्यनिश्रया उपध्यादिवाहकाय 'अयं मे उपधि वहतो'-ति
શ્રી નિશીથ સૂત્ર