SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे कुर्वन्ति वा तानि अश्वयुद्धकरणस्थानानीत्यर्थः, एवम् हस्त्यादीनां युद्धस्थानानि 'चक्खुदंसणवडियाए' इत्यादि पूर्ववत् ।। सू० २५॥ सूत्रम्-जे भिक्खू गाउजूहियठाणाणि वा हयजूहियठाणाणि वा गय. जूहियठाणाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइ. ज्जइ ॥ सू० २६॥ छाया-यो भिक्षु गोयूथिकस्थानानि वा हययूयिकस्थानानि वा गजयूथिकस्थानानि वा चक्षुर्दर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥सू. २६॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गाउजहियठाणाणि वा' गोयूथिकस्थानानि वा गोयूथानां मोसमुदायानां यानि स्थानानि तानि गोयूथिकस्थानानि तानि, अथवा गोमिथुनस्थानानि गोयूथिकस्थानानि, एवमग्रे सर्वत्रापिविज्ञेयम्, 'हयजूहियठाणाणि वा' हययूथिकस्थानानि वा 'गयजूहियटाणाणि वा' गजयूथिकस्थानानि वा 'चक्खुदसणवडियाए' इत्यादि पूर्ववत् ॥ सू० २६॥ सूत्रम्-जे भिक्खू अभिसे यठाणाणि वा अक्खाइयठाणाणि वा माणुम्माणपमाणठाणाणि वा महयाहयनट्टगीयवाइयतंतातलतालतुडिय. घणमुइंगपडुप्पवाइयरवठाणाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभि. संधारेतं वा साइज्जइ ॥ सू० २७॥ छाया-यो भिक्षुरभिषेकस्थानानि वा आख्यापिकास्थानानि वा मानोन्मानप्रमाणस्थानानि वा महदाहतनृत्यगीतवादिवतन्त्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवस्थानानि वा चक्षुदर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ सू० २७॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अभिसेयठाणाणि वा' अभिषेकस्थानानि वा, यत्र मूर्धाभिषिक्तराज्ञामभिषेकादि भवति तादृशानि स्थानानि अभिषेकस्थानानि 'अक्खाइयठाणाणि वा' आख्यायिकास्थानानि वा, यत्र भारतरामायणादिकथा क्रियते तादृशस्थानानि 'माणुम्माणपमाणठाणाणि वा' मानोन्मानप्रमाणस्थानानि वा, यत् धान्यादि पल्लादिना मीयते तद् मानम् , यत् तुलया उद्धृत्य दीयते तद् उन्मानम्, यत् हस्तामुलादिना प्रमाणितं कृत्वा दीयते तत् प्रमाणम् , यत्रैवं प्रकारेण वस्तूनां क्रयो विक्रयो भवेत् तादृशानि स्थानानि धान्यादिवस्तुक्रयविक्रयस्थानानीत्यर्थः, 'महयाहयनदृगीयवाइय तंतीतलतालतुडियपडुप्पवाइयरवठाणाणि वा' महदाहतनृत्यगीतवादित्रतंत्रीतलतालत्रुटितघनमृदङ्गपटुप्रवादितरवस्थानानि वा, यत्र स्थानविशेषे नृत्यगीतादिकं भवति तत्रातिबलेन ताडितानि पटुपुरुषेण શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy