________________
चूर्णिभाष्यावचूरिःउ.११ सू० ६६-६९ स्वपरविस्मापनविपर्यासननिषेधः २६७ स प्रायश्चित्तभागी भवति । तत्रात्मानं परं च भापयन् स्वात्मानं परं च नापेक्षते विभ्यन् स्वयं परो वा क्षिप्तचित्तो भवेत् ग्लानत्वं च भवेत् भीतो वा भूतेन गृहीत इव भवेत् ग्रहगृहीतो वाऽन्यं भापयति । एवं संयमविराधनं कदाचिदात्मविराधनं चापि प्राप्नुयात् तस्मात्कारणात् न स्वात्मानं तथा परं च भापयेदिति ॥सू०६८॥
सूत्रम्-जे भिक्खू अप्पाणं विम्हावेइ विम्हावेतं वा साइज्जइ ॥६९॥ छाया- यो भिक्षुरात्मानं विस्मापयति विस्मापयन्तं वा स्वदते ॥सू०६९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अप्पाणं' आत्मानं-स्वात्मानम् 'विम्हावेई' विस्मापयति, तत्र विस्मयोत्पादनं विस्मापनम् आश्चर्यसमुत्पादनमित्यर्थः, 'विम्हावेतं वा साइज्जइ' विस्मापयन्तं वा स्वदते अनुमोदते । यो हि स्वात्मानं विस्मापयति विस्मापयन्तं वा अन्यमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ६९॥
सूत्रम्-जे भिक्खू परं विम्हावेइ विम्हावेतं वा साइज्जइ॥सू०७० ॥ छाया- यो भिक्षुः परं विस्मापयति विस्मापयन्तं वा स्वदते ।।सु० ७०॥
चूर्णी —'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परं-स्वस्मादन्यम् जनम् 'विम्हावेइ' विस्मापयति तत्र विस्मापनमाश्चर्य जनयति 'विम्हावेंतं वा साइज्जई विस्मापयन्तं वा स्वदते, यो हि अन्यजनस्य आश्चर्यकारिवाक्यादिना आश्चर्यमुत्पादयति तं यो अनुमोदने स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्-विम्हावणं उ दुविहं, अभूयपुव्वं च भूयपुव्वं च ।
तव-इंदजाल-विज्जा-निमित्त--वयणाइहिं चेव ॥ छाया--विस्मापनं तु द्विविधम् अभूतपूर्व च भूतपूर्व च ।
तप-इन्द्रजाल-विद्या-निमित्त-वचनादिभिश्चैव ॥ अवचूरिः-षट्षष्ठीसूत्रे सप्तषष्ठीसूत्रे च यत् विस्मापनं कथितम् तत् द्विधिधं द्विप्रकारक भवति एकमभूतपूर्व, द्वितीयं भूतपूर्व, तत्र यादृशमाश्चर्य पूर्व कदाचिदपि नाभूत् तद् अभूतपूर्वम् , यत्पूर्व कदाचिद् अभूत् तादृशं भूतपूर्वम् , एतत् द्विप्रकारकमपि विस्मापनम् तपआदिना तपसा तपोलब्ध्या भवति, इन्द्रजालेन विस्मयकारिप्रयोगप्रतिपादकशास्त्रेण, विद्यया दृष्टिबन्धादिरूपया मंत्रादिविशेषेण वा विस्मापनं भवति, तथा निमित्तवचनेनापि अतीतानागतवर्तमानसम्बन्धिनिमित्त. वचनेन, आदिशब्दात् अन्तर्धानादिना पादलेपनादिप्रयोगेण वा, एभिः कारणैः विस्मापनं भवति,
શ્રી નિશીથ સૂત્ર