________________
२६२
सूत्रम् — एवं - धरेइ धरेंतं वा साइज्जइ ||सू० ५ ॥
छाया -- एवं धरति धरन्तं वा स्वदते ॥ सू० ५||
चूर्णी -- लौहबन्धनयुक्तपात्राणि वा यावत् अन्येन कृतानि लोहादिबन्धनानि वज्रबन्धनानि वज्रवन्धनयुक्तपात्राणि वा पार्श्वे धरति स्थापयति घरन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ५ ॥
सूत्रम् — एवं परिभुजइ परिभुजतं वा साइज्जइ ॥ सू० ६ ॥ छाया - एवं परिभुक्ते परिभुञ्जानं वा स्वदते ॥ सू० ६ ॥
निशीथसूत्रे
चूर्णी -- लोहादिबन्धनानां लोहादिबन्धनयुक्तपात्राणां वा उपभोगं करोति कुर्वन्तं वा स्वदते तभागी भवति ॥ सू० ६ ॥
सूत्रम् -- जे भिक्खू परं अजोय मेराओ पायवडियाए गच्छइ गच्छतं वा साइज्जइ ॥ सू० ७ ॥
छाया - यो भिक्षुः परमर्द्धयोजनमर्यादातः पात्रप्रतिज्ञया गच्छति गच्छन्तं वा स्वदते ॥ चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'परं' परमधिकम् 'अद्धजोयण मेराओ' अर्द्धयोजनमर्यादातः, तत्र कोशचतुयस्य योजनं भवति तदर्द्ध कोशद्वयं तस्य मर्यादा अवधिः, तथा च क्रोशद्वयप्रमाणादधिकं 'पायवडियाए' पात्रप्रतिज्ञया-पात्रग्रहणवाञ्छया उपलक्षणात् वस्त्रपीठफलकोपध्यादीनां ग्रहणवाञ्छया 'गच्छइ' गच्छति 'गच्छंत वा साइज्जइ' गच्छन्तं वा स्वदते अनुमोदते स प्रायश्चितभागी भवति ।
अत्राह भाष्यकारः
भाष्यम् - परमदजोयणाओ, वसमाणो वेव नवसु खेत्ते । पायं जो य गवेसेइ, आणाभंगार पावे ||
छाया - परमर्द्धयोजनतो वसन् पव नवसु क्षेत्रेषु ।
पात्रं यश्च गवेषयति, आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः --- यः कश्चित् भिक्षुः श्रमणः श्रमणी वा नवसु क्षेत्रेषु ऋतुबद्धकाले अष्टसु क्षेत्रेषु तथा वर्षावासे एकस्मिन् क्षेत्रे मिलित्वा नवसु क्षेत्रेषु वसन् अर्द्धयोजनात् परंपरतः अर्द्ध योजना - दग्रे यदि पात्रादिकं गवेषयति अन्वेषयति पात्रादीनां याचनार्थ गच्छति स आज्ञा भङ्गादिदोषान् प्राप्नोति, तस्य मर्यादाभङ्गकर्तुः श्रमणस्य श्रमण्याश्व आज्ञाभङ्गादिदोषा भवन्ति, यस्मात्
શ્રી નિશીથ સૂત્ર