________________
२५०
निशीथसूत्रे एवं तत्र ग्लानसमीपं गत्वा तत्रत्यो य आचार्यस्तं प्रति वदेत्-हे भदन्त ! आज्ञापय किमहं करोमि वैयावृत्ये स्वात्मानं नियोजयामि अहमनेनैवाभिप्रायेणागतोऽस्मि यद् ग्लानं परिचरिष्यामि, ग्लानस्य वैयावृत्ये ये संलग्नाः साधवस्तान् भक्तपानादिभियावृत्यं करिष्यामीति । एवं कुर्वतः श्रमणस्य तीर्थकराज्ञाया आराधना कृता भवति । एवं कथिते यदि आचार्यः कथयति-यत् अमुकं कार्य कुरु, तदा तत्रत्यं सर्व कार्यमाचार्याज्ञया कर्तव्यम् । औषधभक्तपानादिना वैयावृत्त्यं कर्तव्यं यावत् स साधु रुजो भवेत् । तस्मात् साधुना अवश्यमेव ग्लानस्य समीपे गन्तव्यम् । यस्तु श्रमणो ग्लानं श्रुत्वा तत्र झटिति न गच्छति उन्मार्गेण प्रतिपथेन वा गच्छति स तीर्थकरस्याज्ञाया विराधको भवन् प्रायश्चित्तभागी भवतीति ॥३८॥
सूत्रम्-जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलभमाणे जो तं ण पडियाइक्खइ ण पडियाइक्वंतं वा साइज्जइ ॥ सू० ३९॥
छाया-यो भिक्षुर्लानवैयावृत्ये अभ्युस्थितो ग्लानप्रायोग्यं द्रव्यजातमलभानो यस्तं न प्रत्याचक्षते न प्रत्याचक्षाणं वा स्वदते ॥सू० ३९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गिलाणवेयावच्चे' ग्लानवैयावृत्ये, तत्र रोगातङ्कादिना ग्लानस्य साधोः वैयावृत्यं औषधभैषज्यानपानादिना सेवाकरणे 'अन्भुट्टिए' अभ्युस्थितः समुद्यतः सेवाकरणार्थ कृतप्रयत्नो जातो यदि 'गिलाणपाउग्गे' ग्लानप्रायोग्यम् ग्लानस्य प्रायोग्यमनुकूलं प्रासुकमाहारमौषधादिकं वा 'दन्वजाए' द्रव्यजातम्-तदनुकूलवस्तुविशेषम् 'अलभमाणे' अलभमानः-अप्राप्नुवन् 'जो तं ण पडियाइक्खइ' यो ग्लानसेवाकारकः साधुः ग्लानसाध्वर्थमौषधमशनादिकं च आनेतुं कृतप्रयत्नोऽपि तादृशद्रव्यजातम् अन्तरायबलादलममानो यदि श्रमणान्तरं प्रति आचार्य प्रति वा रोगिणं प्रति वा न प्रत्याचक्षते न कथयति तथा 'ण पडियाइक्खंतं वा साइज्जइ' न प्रत्याचक्षाणं वा स्वदते अनुमोदते । यो हि भिक्षुग्लानस्य श्रमणस्य वैयावृत्त्ये नियुक्तो ग्लानस्य प्रायोग्य औषधभैषज्यान्नपानादिकमानेतुं प्रयत्नं करोति तत्र यदि तादृशं प्रासुकमौषधादिकं तेन न लब्धम् तदा आगत्याचार्य प्रति अन्यस्मै साधवे वा ग्लानाय वा कथयितव्यं यत् औषधादिकं लाभान्तरायकर्मणा मया न लब्धमिति । एवं न कथयति स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्तीति ।
अत्राह भाष्यकार:भाष्यम्-वेयावच्चे गिलाणस्स, वावडो समणो जइ ।
दव्यजायं अलब्भंतो, गुरुणो तं निवेयए ॥
શ્રી નિશીથ સૂત્ર