SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्याचचूरिःउ.१० सू० ३५ उद्गतवृत्तिकादेःसूर्यानुगमनादिनिश्चयेभोजननिषेधः २४५ सूत्रम्-जे भिक्खू उग्गयवित्तिए अणथमियमणसंकप्पे असंथडिए निबितिगिच्छासमावन्नेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ भुंजतं वा साइज्जइ ॥ सू० ३४॥ छाया--यो भिक्षुः उद्गतवृत्तिकः अनस्तमितमनःसंकल्पः असंस्तुतः निर्विचिकित्सासमापन्नेन आत्मना असणं वा ४ यावत् यस्तं भुङ्क्ते भुजानं वा स्वदते ॥सू० ३४॥ चूर्णी---जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणो वा उद्गतवृत्तिकादिवशिषणविशिष्टः सः 'असंथडिए' असंस्तृतः अध्वप्रतिपन्नतपोग्लानत्वादिकारणात् धृतिबलादिरहितः 'निन्वितिगिच्छासमावन्नेणं अप्पाणेणं' निर्विचिकित्सा सूर्यस्योद्गमनानस्तमनशङ्काराहित्य, तां समापन्नेन आत्मना सन्देहरहितेनात्मना अशनादिकं गृहीत्वा भुङ्क्ते किन्तु भोक्तुं प्रवृत्ते सति यदि जानीयात् 'सूर्यो नोदितः, अस्तं वा गतः' इत्येवं निश्चये सत्यपि यो मुङ्क्ते न तदशनादिकं परिष्ठापयति स प्रायश्चित्तभागी भवतीति भावः । सू० ३४॥ सूत्रम्-जे भिक्खू उग्गयवित्तिए अणस्थमियमणसंकप्पे असंथडिए वितिगिच्छासमावण्णेणं अप्पाणेणं असणं वा ४ जाव जो तं भुंजइ भुंजंतं वा साइज्जइ ॥सू० ३५॥ छाया---यो भिक्षुः उद्गतवृत्तिकः अनस्तमितमनःसंकल्पः असंस्तृतः विचिकित्सासमापन्नेन आत्मना अशनं वा ४ यावत् यस्तं भुङ्क्ते भुञ्जानं वा स्वदते ॥सू० ३५॥ चूर्णी-'जे भिक्खू' इत्यादि । व्याख्या पूर्ववदेव, नवरम्-'असंथडिए' असंस्तृतः असमर्थः यः कोऽपि मुनिर्दूरक्षेत्राद् विहृत्यागमनेन श्रान्तः, मासक्षपणस्य पारणकदिवसत्वेन ग्लानत्वमापन्नः, रोगादिना ग्लानत्वमापन्नो वा भवेत् , इत्यादिकारणैतिबलवर्जितः 'वितिगिच्छासमावण्णेणं अप्पाणेणं' विचिकित्सा-सूर्यस्योदयसंभवः संप्रति अभ्रच्छन्नादिकमाश्रित्यैवं दृश्यते, अथवा-अस्तं न गत इति संभवः, इत्येवंरूपा, तां समापन्नेण आत्मना 'उदितः सूर्यो नास्तं गतो वा सूर्यः' इति दातृवचनेन अशनादिकं गृहीत्वा भुङ्क्ते भोक्तुं प्रारभते अथ तत्समये सूर्यस्यानुद्गमनास्तमनयोनिश्चये सति यो भुङ्क्त न परिष्ठापयति तदा स प्रायश्चित्तभागी भवतीति भावः ॥सू० ३५॥ अत्र भाष्यकारो गाशयमाहभाष्यम्-उग्गय वित्ती भिक्खू, होइ य जो अणत्यमियसंकप्पो । __ संथडिओ सो दुविहो, णिचितिगिच्छो य वितिगिच्छी ॥१॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy