SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २१८ निशीथसूत्रे वेलम्बका भाण्डवत् कुचेष्टाकारकाः, तेभ्यः 'कहगाण वा' कथकेभ्यो वा, कथकाः राजसभायां कथाकारकास्तेभ्यः 'पवगाण वा', प्लवकेभ्यो वा प्लवकाः-मर्कटादिवत् कूर्दकास्तेभ्यः 'लासगाण वा' लासकेभ्यो, वा-लासकाः गाथागायकाः राजयशोगायकास्तेभ्यः 'खेलयाण वा' खेलकेभ्यो वा लीलाकारकेभ्यः 'छत्ताणुयाण वा' छत्रानुगेभ्यो वा राजादीनां छत्रं गृहीत्वाऽनुगच्छन्ति तेभ्यः छत्रधारकेभ्य इत्यर्थः, एतेषां नटादीनामुद्देशेन राजभवने संपादितमाहारजातं यो गृह्णाति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २२।। । सूत्रम्-जे भिक्खू रण्णा खत्तियाणं मुदियाणं मुद्राभिसित्ताणं असणं वा पाणं वा खाइमं वा खाइमं वा परस्स नीहडं पडिग्गाहेइ पडिग्गहेंतं वा साइज्जइ । तं जहा-आसपोसयाण वा हस्थिपोसयाण वा महिसपोसयाण वा वसहपोसयाण वा सीहपोसयाण वा वग्धपोसयाण वा अयपोसयाण वा मिगपोसयाण वा सुणगपोसयाण वा सूयरपोसयाण वा मेंढपोसयाण वा कुक्कुडपोसयाण वा मक्कडपोसयाण वा तित्तिरपोसयाण वा वट्टयपोसयाण वा लावयपोसयाण वा चीरल्लपोसयाण वा हंसपोसयाण वा मयूरपोसयाण वा सुयपोसयाण वा ॥सू० २३॥ ___ छाया-यो भिक्षुः राज्ञः क्षत्रियाणां मुदितानां मूर्धाभिषिक्तानामशनं वा पानं वा खाद्य व स्वाद्य व परस्मै निहतं प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते । तद्यथाअश्वपोषकेभ्यो वा हस्तिपोषकेभ्यो वा महिषपोषकेभ्यो वा वृषभपोषकेभ्यो वा सिंहपोषकेभ्यो वा व्याघ्रपोषकेभ्यो वा अजपोषकेभ्यो वा मृगपोषकेभ्यो वा श्वपोषकेभ्यो वा शंकरपोषकेभ्यो वा मेषपोषकेभ्यो कुक्कुटपोषकेभ्यो वा मर्कटपोषकेभ्यो वा तित्तिरपोषकेम्यो वा वर्त्तकपोषकेभ्यो वा लावकपोषकेभ्यो वा चिल्हपोषकेभ्यो वा हंसपोषकेभ्यो वा मयूरपोषकेभ्यो वा शुकपोषकेभ्यो वा ॥ सू० २३॥ चूर्णी-- इदमपि सूत्रं पूर्ववदेव व्याख्येयम् । अत्र अश्वादिशब्दाः सर्वे प्रसिद्धा एव ते लोकतो ज्ञातव्याः ॥सू०२३॥ एवमनेनैव क्रमेणाग्रेतनानि चत्वारि सूत्राण्यपि व्याख्येयानि, तथाहि -'आसदमगाण वा हत्थिदमगाण वा' अश्वदमकेभ्यः अश्वदमनकारकेभ्यः, हस्तिदमकेभ्यः हस्तिदमनकारकेभ्यः० सूत्रम् २४॥ 'आसमद्दगाणं वा हथिमद्दगाणं वा' अश्वमर्द केभ्यः अश्वानां हस्तादिना मर्दनकारकेभ्यः, हस्तिमर्दकेभ्यः हस्तिनां हस्तादिना मर्दनकारकेभ्यः० इति सूत्रम् २५॥ 'आसमट्ठाण वा हथिमट्ठाण वा' अश्वमाजकेभ्यो वा हस्तिमार्जकेभ्यो वा । अश्वानां हस्तिनां च रजोऽवगुण्ठितशरीरस्य मार्जनकारकेभ्यः रजोनिवारकेभ्यः० इति सूत्रम् २६॥ 'आस શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy