SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ १९२ निशीथसूत्रे 'महागिहंसि वा' महागृहे वा, एतेषु अष्टसूत्रकथितेषु स्थानेषु यः कश्चिद् भिक्षुर्विहार-स्वाध्यायाssहारो-च्चारादिपरिष्ठापनाऽनार्यादिकथाकथनं करोति कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥९॥ अत्राह भाष्यकारःभाष्यम्-उज्जाणाओ समारब्भ, गोणसालंतसंठिओ । विहाराई करे भिक्खू , आणाभंगाइ पावई ॥ छाया- उद्यानतः समारभ्य गोशालान्तसंस्थितः । विहारादि कुर्याद् भिक्षुः आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः-'उज्जाणाओ' इत्यादि । उद्यानतः समारभ्य उद्यानमादौ कृत्वा गोशालापर्यन्तस्थानेषु संस्थितः भिक्षुः श्रमणः एकया स्त्रिया सार्द्ध विहारादिकं विहारमाहारमुच्चारादिपरिष्ठापनमनार्यादिकथाकथनं च कुर्यात् कुर्वन्तमनुमोदयेत् वा स आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनादिदोषान् प्राप्नोति तस्मात्कारणात् श्रमणः आगन्त्रागारादिषु एकाकिन्या स्त्रिया सार्द्ध विहारादिकं न कुर्यात् ॥ सू० ९ ॥ सूत्रम् -जे भिक्खू राओ वा वियाले वा इत्थीमज्झगए इत्थीसंसत्ते इत्थीपvिडे अपरिमाणयाए कहं कहेइ कहेंतं वा साइज्जइ ॥ सू० १०॥ _ छाया यो भिक्षुः रात्रौ वा विकाले वा स्त्रीमध्यगतः स्त्रीसंसक्तः स्त्रीपरिवृतोऽपरिमाणतया कथां कथयति कथयन्तं वा स्वदते ॥ सू० १० ॥ चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः 'राओ वा' रात्रौ वा 'वियाले वा विकाले वा, तत्र विकालः दिवसावसाने रात्रिप्रागभावे, रात्र्यवसाने दिवसप्रागभावे वर्तते, तथा च-रात्रिदिवसयोरन्तरालकालो विकालः, तस्मिन् विकाले वा 'इस्थिमज्झगए' स्त्रीमध्यगतः स्त्रीणां मध्ये स्थितः स्त्रीसमुदाये स्थितः 'इस्थिसंसत्ते' स्त्रीसंसकः-स्त्रिया संघट्टितः स्त्रिया ऊर्वादिना संस्ष्टष्टः तत्स्पर्शयुक्तः 'इत्थिपरिवुडे' स्त्रीपरिवृतः परि सर्वतः समन्तात् स्त्रीभिः परिवृतः यस्य चतुर्दिक्षु स्त्रिय उपविष्टा भवेयुः स स्त्रीपरिवृत इति कथ्यते, इत्थंभूतः साधुः 'अपरिमाणयाए' अपरिमाणतया परिमाणमतिक्रम्य, परिमाणं च एकद्वित्रिचतुःपञ्चप्रश्नोत्तररूपं भवति तदतिक्रम्य षष्ठं प्रश्नोत्तरमपरिमाणं भवति, एतादृश्या अपरिमाणतया 'कह' कथां-धर्मकथाम्-प्रश्नोत्तररूपां वा कथां 'कहेई' कथयति 'कहेतं वा साइज्जई' कथयन्तं वा स्वदतेऽनुमोदते, स प्रायश्चित्तभागी भवति । अत्राह भाष्यकार:भाष्यम्- राओ य वियाले वा, इत्थीमज्झगओ मुणी । पमाणमइरेगेण, कहाओ दोसमावहे ॥१॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy