________________
१७८
निशीथसूत्रे कस्मिंश्चिदिन्द्रियप्रदेशे वा 'उरसि वा' उरसि वा-हृदयप्रदेशे 'उयरंसि वा-उदरे वा कुक्षिप्रदेशे 'थणंसि' चा' स्तने वा-उपलक्षणात् हस्तादिके वा 'गहाय' गृहीत्वा-स्त्रियोऽक्षादिकं गृहीत्वेत्यर्थः 'संचालेई' संचालयति इतस्ततः चालयति 'संचालतं वा साइज्जई' संचालयन्तं वा स्वदते । यो हि भिक्षुर्मैथुनसेवनेच्छया स्त्रीणामक्षादिकं गृहीत्वा चालयति चालयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४ ॥
सूत्रम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए अण्णमण्णस्स पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ।
छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया अन्योन्यस्य पादौ आमार्जयेद्वा प्रमाजयेद्वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १५ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'अण्णमण्णस्स' अन्योन्यस्य परस्परम् स्त्री साधोः, साधुश्च स्त्रियाः ‘पाए' पादौ-चरणौ 'आमज्जेज्ज वा' आमार्जयेत् वा एकवारम् ‘पमज्जेज्ज वा प्रमार्जयेद्वा अनेकवारम् 'आमज्जंतं वा' आमार्जयन्तं वा 'पमज्जंतं वा' प्रमार्जयन्तं वा 'साइज्जइ' स्वदतेऽनुमोदते । यो हि भिक्षुमैथुनसेवनेच्छया परस्परं चरणौ प्रमार्जयेत् प्रमार्जयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १५॥
सूत्रम्--एवं तइयउदेसे जो गमो सो णेयवो जाव जे भिक्ख माउग्गामस्स मेहुणवडियाए गामाणुगामं दुइज्जमाणे अण्णमण्णस्स सीसदुवारियं करेइ करेंतं वा साइज्जइ ॥ सू० १६-६७॥
छाया-एवं तृतीयोद्देशके यो गमः स ज्ञातव्यो यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया ग्रामानुग्राम द्रवन् अन्योन्यस्य शीर्षद्वारिकां करोति कुवन्तं वा स्वदते इत्यादि ॥ सू० १६-६७ ॥
चूर्णी - ‘एवं तइय' इत्यादि । ‘एवं तइयउद्देसे गमो' एवं तृतीयोदेशके यो गमः आापकः सः अत्रापि मातृग्रामस्य मैथुनप्रतिज्ञया परस्परं पादयोरामर्जनादिसूत्रेषु 'णेयब्बो' ज्ञातव्यः । कियत्पर्यन्तमित्याह-'जाव' इत्यादि । 'जाव' यावत् यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया 'अण्णमण्णस्स पाए आमज्जेज्ज वा' इत्यादि सूत्रादारभ्य 'जे भिक्खु माउग्गामस्स मेहुणवडियाए गामाणुगामं दुइज्जमाणो अण्णमण्णस्स सोसवारियं करेइ' एतत्सूत्रपर्यन्तं स गमो ज्ञातव्य इति भावः ॥ सू० १६-६७ ॥
શ્રી નિશીથ સૂત્ર