SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे प्रलम्बसूत्राणि वा सुवर्णनिर्मितानि लम्बायमानानि सूत्राणि तानि 'सुवण्णमुत्ताणि वा' सुवर्णसूत्राणि वा-सुवर्णस्य सूत्रविशेषलक्षणानि 'करेई' करोति, एतानि हारादिकानि मातृग्रामस्य मैथुनसेवनेच्छया स्वयं संपादयति परद्वारा कारयति वा तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदतेऽनुमोदते ॥ सू० ८॥ एवं पूर्वोक्तवस्तुविषये 'धरेह' ‘परि जई' इति सूत्रद्वयमपि पूर्ववद् व्याख्येयम् ।।सू ०९-१०॥ मूलम्-जे भिक्खू माउग्गामस्स मेहुणवडियाए आईणाणि वा आईणपाउराणि वा कंबलाणि वा कंबलपाउराणि वा कोयराणि वा कोयरपाउराणि वा गोरमियाणि वा कालमियाणि वा णील-मियाणि वा सामाणि वा महासामाणि वा उट्टाणि वा उट्टलेस्साणि वा वग्याणि वा विवग्याणि वा पलवंगाणि वा सहिणाणि वा सहिणकल्लाणि वा खोमाणि वा दुगुल्लाणि वा तिरीडपट्टाणि वा पतुलाणि वा पडलाणि वा चीणाणि वा अंसुयाणि वा कणगकंताणि वा कणगखचियाणि वा कणगचित्ताणि वा कणगविचित्ताणि वा आभरणाणि वा आभरणचित्ताणि वा आभरणविचित्ताणि वा करेइ करेंतं वा साइज्जइ ॥ सू० ११ ॥ छाया-यो भिक्षुर्मातृग्रामस्य मैथुनप्रतिज्ञया आजिनानि वा आजिनप्रावरणानि वा कंबलान् वा कम्बलप्रावरणानि वा कोयराणि वा कोयरप्रावरणानि गौरमृगाणि वा कालमृगाणि वा नीलमृगाणि वा श्यामानि वा महाश्यामानि वा उष्ट्राणि वा उष्ट्रलेश्यानि वा व्याघ्राणि वा विव्याघ्राणि वा प्लवङ्गानि वा लक्षणानि वा ग्लक्ष्णकल्यानि वा क्षौमाणि वा दुकूलानि वा तिरीटपट्टानि वा प्रतुलानि वा पटलानि वा चीनानि वा अंशुकानि वा कनककान्तानि वा कनकखचितानि वा कनकचित्राणि वा कनकविचित्राणि वा आभरणानि बा आभरणचित्राणि वा आभरणविचित्राणि वा करोति कुर्वन्तं वा स्वदते ॥ सू० ११॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'माउग्गामस्स' मातृग्रामस्य 'मेहुणवडियाए' मैथुनप्रतिज्ञया-मैथुनवाञ्छया 'आईणाणि वा' आजिनानि वा-मृगचर्मवस्त्राणि 'आईणपाउराणि वा' आजिनप्रावरणाणि वा, तत्राजिनं मृगचर्म तस्य प्रावरणाणिआच्छादनानि यः करोतीत्यग्रिमेण सम्बन्धः, 'कंबलाणि वा' कम्बलान् , तत्र कम्बला ऊर्णादिनिर्मितास्तान् 'कंबलपाउराणि वा' कम्बलप्रावरणानि वा, तत्र कम्बलस्य प्रावरणानि आच्छादनानि तानि यः करोति तथा 'कोयराणि वा' कोयराणि वा, तत्र कोयराणि कोयरदेशनिष्पन्ना वस्त्रविशेषाः શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy