________________
चूर्णि भाष्यावचूरिः
उ० ४ सू० १३६-१३९ उच्चारप्रस्त्रवणपरिष्ठापनाधिकारः १३१
दंशने चात्मविराधनं च । यस्मादेते दोषास्तस्मात् कारणात् दिवसस्य चरमपौरुण्यामेव भूमित्रयस्यावश्यमेव प्रतिलेखनं कर्तव्यम् । तिस्रो भूमय आसन्न - मध्य- दूररूपाः, तत्र – आसन्न - भूमिर्व सतिसमीपस्था, मध्यभूमिलौकानां गमनागमनमार्गरूपा, दूरभूमिः - सार्द्धद्विशतहस्तप्रमाणात्परं या भूमिः सा इति ॥ सू० १३५ ॥
सूत्रम् -- जे भिक्खू खुड्डागंसि थंडिलंसि उच्चारपासवणं परिठ्ठवेइ, परिद्ववेंतं वा साइज्जइ १३६॥
छाया -यो भिक्षुः क्षुल्लके स्थण्डिले उच्चारप्रस्रवणं परिष्ठापयति परिष्ठापयन्तं वा स्वदते || सू० १३६॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् मिक्षुः 'खुड्डागंसि थंडिलंसि' क्षुल्लकेऽतिसंकुचिते स्थण्डिले स्थाने, तत्र हस्तप्रमाणतो यत् न्यूनं स्थानं तत् क्षुल्लकं स्थानं, तस्मिन् क्षुल्लकस्थाने 'उच्चारपासवणं परिद्ववेइ' उच्चारप्रस्रवणं परिष्ठापयति । 'परिद्ववेंतं वा साइज्जइ' परिष्ठापयन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥ १३६ ॥
क्षुल्लकस्य किं प्रमाणम् ? अत्राह भाष्यकारः -
भाष्यम् - विक्खंभायामेहि, रयणीमेत्तं हवेज्ज थंडिल्लं । चउरंगुलमोगाढं, जहण्ण वित्थिष्णमच्चित्तं ॥ एतो हीणतरं जं, खुड्डागं थंडिलं मुणेयं । एत्थ य परिहवेंतो, आणाभंगाइ पावे ||
छाया - विष्कम्भायामाभ्यां रत्निमात्रं भवेत् स्थण्डिलम् । चतुरङ्गुलावगाढ़े, जघन्यविस्तीर्णमचित्तम् ॥
अस्मात् हीनतरं यत् क्षुल्लकं स्थण्डिलं ज्ञातव्यम् । अत्र च परिष्ठापयन्, आज्ञाभङ्गादि प्राप्नोति ॥
अवचूरि : - 'विक्खंभायामेहिं' इत्यादि । विष्कम्भायामाभ्यां रग्निमात्रं बद्धमुष्टिकहस्तप्रमाणं यद् भवेत्, तथा यच्च चतुरङ्गुलावगाढं भूमेरघथतुरङ्गुलं यावद् अचित्तं भवेत् तत् स्थण्डिलं जघन्यविस्तीर्ण जघन्यतो विस्तीर्ण कथ्यते । 'एत्तो' इत्यादि, अस्मात् जघन्यविस्तीर्णात् यत् हीनतरं भवेत् तत् क्षुल्लकं स्थण्डिलं ज्ञातव्यम् अत्र - अस्मिन् एतत्परिमिते स्थण्डिले उच्चारप्रस्रवणं परिष्ठापयन् साधुः आज्ञाभङ्गादि प्राप्नोति ॥ सू० १३६ ॥
"
सूत्रम् -- जे भिक्खू उच्चारपासवणं अविहीए परिवेश, परितं वा साइज्जइ || सू० १३७ ॥
छाया - यो भिक्षुरुच्चारप्रवणम् अविधिना परिष्ठापयति परिष्ठापयन्तं वा स्वदते ||सू०१३७॥
શ્રી નિશીથ સૂત્ર