________________
निशीथसूत्रे वा, अभिहतमाहृत्य दीयमानं प्रतिषेध्य तामेव अनुवाऽनुवर्त्य परिवेष्टय-परिवेष्टयप्रजल्प्य प्रजल्प्य अवभाण्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० १२॥
चूर्णी-नवमं दशमं च सूत्रं याच्यमानपुरुषविषयकमेकत्व-पृथक्त्वेन व्याख्यातम् , संप्रतिएकादशसूत्रं याच्यमानस्त्रीविषयकं व्याख्यातुमाह-'जे भिक्खू' इत्यादि स्पष्टम् ॥ सू० ११ ॥
___ एकादशं सूत्रमेकां स्त्रीमाश्रित्य याचनाविषयकं व्याख्याय तदनु-अनेकस्त्रीविषयकं द्वादशं सूत्रमाह – 'जे भिक्ख' इत्यादि।
सूत्रम्-जे भिक्खू आगंतागारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अण्णउत्थिणीहिं वा गारस्थिणाहिं वा असणं वा पाणं वा खाइमं वा साइमं वा अभिहडं आहटु दिज्जमाणं पडिसेहेत्ताताओ अणुवत्तिय-अणुवत्तिय परिवेढिय-परिवेढिय परिजविय-परिजविय ओभासिय-आसासिय जायइ जायंत वा साइज्जइ ।। सू० १२ ॥
छाया- यो भिक्षुः आगन्त्रागारेषु वा आरामागारेषु वा गाथापतिकुलेषु वा पावसथेषु वा अन्ययूथिकीभिर्वा गार्हस्थिकीभिर्वा अशनं वा पानं वा खाद्यं वा स्वाद्य वा अभिहृतमाहृत्य दीयमानं प्रतिषेध्य ता एवाऽनुवाऽनुवर्त्य परिवेष्टय-परिवे. टप, परिजल्प्य परिजल्प्य अवभाज्याऽवभाष्य याचते याचमानं वा स्वदते ॥ सू० १२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । याच्यमानाऽनेकस्त्रीविषयकं सूत्रम्-'जे भिक्खू' यो भिक्षुः, इत्यादि स्पष्टम् । एतच्च सूत्रं याच्यमानाऽनेकस्त्रीविषयकमित्येतावता-एकादशसूत्रादेकस्त्रीविषयकाद्भिद्यते ॥ सू० १२॥
सूत्रम्-जे भिक्खू गाहावइकुलं पिंडवायपडियाए पविढे पडियाइक्खिए समाणे दोच्चंपि तमेव कुलं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ।
छाया-यो भिक्षुः गाथातिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः प्रत्याख्यातः सन् द्वितीयमपि (वार) तमेव कुलं अनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू० १३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'गाहावइकुलं' गाथापतिकुलम् गृहिणां गृहम् 'पिंडवायपडियाए' पिंडपातप्रतिज्ञया अशन-पानादिग्रहणेच्छया 'पबिट्टे' प्रविष्टः-कोऽपि साधुः केषाञ्चित्-श्रावकादीनां गृहे भिक्षां ग्रहीतुं गतः परन्तु 'पडियाइक्खिए समाणे' प्रत्याख्यातः-निषिद्धः सन्-साधुर्भिक्षाथै गृहस्थगृहे प्रविशति किन्तु गृहस्वामी निषेधति "नाऽत्रागन्तव्यम्"-इत्थं प्रतिषेधितोऽपि सन् साधुः 'दोच्चपि तमेव कुलं अणुप्पविसई द्वितीयमपि वारं-गृहस्वामिन आज्ञामन्तरेणाऽनुप्रविशति, तद्गृहे पुनः प्रवेश करोति । तथा 'अणुप्पविसंतं वा साइज्जई' अनुप्रविशन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥१३॥
શ્રી નિશીથ સૂત્ર