________________
निशीथसूत्रे सूत्रे-इत्वरग्रहणेन सर्वोपकरणग्रहण कृतम् , अतः प्रथमत उपकरणं निरूपणीयम् , अत्राह भाष्यकारःभाष्यम्-उवगरणं दुविहं, ओहियं च तहेयरं ।
एक्केक्कं तिविहं णेयं, जहन्नुक्किट्ठमज्झिमं ॥ छाया-उपकरणं द्विविध,-मौधिकं च तथेतरत् ।।
___ एकैकं त्रिविधं ज्ञेयं, जघन्योत्कृष्टमध्यमम् ॥
अवचूरिः-'उवगरणं' इत्यादि | उपकरणं-वस्त्रपात्रादिकं द्विविध-द्विप्रकारकमुक्तम्एकमौधिकं-सर्वसामान्यम् , वस्त्रपात्रादिसामान्यम् । तथा - इतरत् औपग्रहिकम् , प्रातिहारिकपीठफलकादिकम् । तद्-एकैकमपि जघन्यमध्यमोत्कृष्टभेदात् त्रिविधम् । तत्र-जघन्यं-मुस्ववस्त्रिका, वस्त्रखण्डं वा, मध्यम-"चद्दर" चोलपट्टकादिकम् , उत्कृष्टं वस्त्रपात्रादिकं सर्वम् ॥ सू० ५९॥ सूत्रम्-तं सेवमाणे आवज्जइ मासियं परिहारट्ठाणं उग्घाइयं ।६०|
॥णितीहज्झयणे बीओ उद्देसो समत्तो ॥२॥ छाया-तत्सेवमान आपद्यते मासिकं परिहारस्थानमुद्घातिकम् ॥ ० ६० ॥
॥ इति निशीथाध्ययने द्वितीय उद्देशः समाप्तः ॥२॥ चूर्णी-तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् उद्देशकप्रारंभे-'दारुदंडयं पायपुंछणं करेइ' इत्यादिप्रथमसूत्रादारभ्य, उद्देशकान्ते-'इतरियपि उवहिं ण पडिलेहइ' इति सूत्रपर्यन्तमेकोनषष्टिसूत्राणि सन्ति, तत्र-यानि यानि प्रायश्चित्तस्थानानि कथितानि तन्मध्यादन्यतममपि-अपराधस्थानं सेवमानः प्रतिसेवनां कुर्वन् श्रमणः 'आवज्जई' आपद्यते-प्राप्नोति । किमितिजिज्ञासायामाह—'मासियं परिहारट्ठाणं उग्घाइयं' मासिकं परिहारस्थानमुद्घातिकं प्रायश्चित्तम् लघुकमित्यर्थः ॥ सू० ६० ॥ इति श्री-विश्वविख्यात-जगल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां द्वितीय उद्देशकः समाप्तः ॥२॥
શ્રી નિશીથ સૂત્ર