________________
चूर्णिभाष्यावचूरिः उ० २ सू० ४६ ४८ सागारिक पिण्डग्रहणोपभोग ज्ञातत्कुल प्रवेशनि० ६७ पिण्डं भक्तादिकम् 'गिण्हइ' गृह्णाति - स्वीकरोति 'गिव्हतं वा' गृह्णन्तं वा स्वीकुर्वन्तं स्वद प्रायश्चित्तभाग् भवति ॥ सू० ४६ ॥
संप्रति सागारिकस्य षड् द्वाराणि प्राह
भाष्यम् – सागारियस्स दाराणि, अणेगाणि हवंति खु । ताईं सव्वाईं जाणंतु, जहासत्थं वियक्खणा ||
छाया - सागारिकस्य द्वाराणि अनेकानि भवन्ति खलु । तानि सर्वाणि जानन्तु यथाशास्त्रं विचक्षणाः
॥
अवचूरि : – 'सागारियस्स' इत्यादि । सागारिकस्य - शय्यातरस्य द्वाराणि अनेकानि - अनेकप्रकारकाणि भवन्ति, तानि सर्वाणि यथाशास्त्रं - शास्त्रप्रतिपादितप्रकारेण विचक्षणाः- बुद्धिमन्तो जानन्तु ।
सागारिकस्य सप्त द्वाराणि भवन्ति, अत्र तत्संग्राहकं गाथाद्वयम्, तथाहि" सागरिक इति को वा १, कदा शय्यातरो भवेत् २ | कतिविधश्च तत्पिण्डः ३, अशय्यातरकः कदा ४ ॥ १ ॥ त्याज्योऽसौ कस्य विज्ञेयो ५, दोषाः पिण्डग्रहे च के ६ | अनेकेषु च तेषु स्यादेकः सागारिकः पुनः ७ ||२||" इति तथा च तदर्थं :यैः कः पुनः सागारिकः शय्यातरो भवतीति प्रथमद्वारम् १, कदा स शय्यातरो भवतीति द्वितीयद्वारम् २, कतिप्रकारकः शय्यातरपिण्डः इति तृतीयाद्वारम् ३, अशय्यातरः स कदा भवतीति चतुर्थद्वारम् ४, स च कस्य त्याज्यो भवति, इति पञ्चमं द्वारम् ५, दोषाः पिण्डग्रहे च के, इति षष्ठं द्वारम् ६, अनेकेषु द्वित्रादिषु सागारिकेषु वा एको ग्रहीतव्यः, इति सप्तमं द्वारम् ७ । 'सागारिक इति को वा' इति प्रथमं द्वारमाह - तत्र - अगारेण गृहेण यत् सहितं तत्सागारं तत्संयोगात् सागारिक इति, अस्य पञ्च नामानि एकार्थकानि नानाव्यञ्जनानि सन्ति, तथाहि - सागारिकः १, शय्यातरः २, शन्यादाता ३, शय्याधरः ४, शय्याकरः ५ इति । तत्र सागारिकशब्दस्यार्थः पूर्वमुक्त एव १, साधवे शय्यादानेन भवं तरतीति शय्यातरः २, शय्यादाता - साधवे शय्यादानात् ३, शय्याधरः - साधवे शय्यादानेन घरति आत्मानं दुर्गतेरुद्धरतीति ४, शय्याकरः - यस्मात् शय्यां करोति तस्मात् शय्याकरः ५, इति । 'सागारिक इति को वा' इति प्रथमं द्वारम् १ । 'कदा शय्यातरो भवेत् इति द्वितीयं द्वारमाह-यस्मिन् काले वसतौ वस्तु यत्सकाशाद् आज्ञा गृह्यते स तस्मात्कालादेव शय्यातरो भवेदिति द्वितीयं द्वारम् २ । 'कतिविधश्च तत्पिण्डः ' इति तृतीयं द्वारमाह - शय्यातरपिण्डो द्विविधो भवति आहार : - उपधिश्च । चतुर्विधो वा भवति,
શ્રી નિશીથ સૂત્ર