________________
चूर्णिभाष्यावचूरिः उ० १ सू० ४४-४७ पात्रस्याविधिसंधानातिरेकबन्धननिषेधः २१ दधिकं संयोजयति स प्रायश्चित्ती भवति । यः साधुस्तुम्बिकादिपात्रेषु-एक-द्विकं वा कदाचित्त्रिकं थिग्गलं योजयितुं प्राप्ताधिकारः स यदि चतुर्थादिकं थिग्गलं स्वस्वजातीयं खण्डं योजयति करोति, कारयति, कुर्वन्तं वा स्वदतेऽनुमोदते तदा प्रायश्चित्तभाग्भवति ।। सू० ४३ ।।
अत्राह भाष्यकारःभाष्यम्- उड्ढं तुडियतिया य, जोजेज्ज पायगं जई ।
आणाणवत्थामिच्छत्तं, पावेई य विराहणं ॥ छाया- उर्ध्व त्रुटितत्रिकाच्च, योजयेत्पात्रकं यतिः ।
___ आज्ञानवस्थामिथ्यात्वं प्राप्नोति च विराधनम् ।। अवचूरिः-'उड्ढं तुडिय' इत्यादि । यो यतिः श्रमणः स्फुटितपात्रादिकस्य थिग्गलत्रयात् उर्ध्वमधिकं थिग्गलेन पात्रकं तुम्ब्यादिपात्रं योजयेत्, चतुर्थादिकं थिग्गलं पात्रे स्थगयति--करोति, स श्रमणः आज्ञाभङ्गदोषम्--अनवस्थादोषम् -मिथ्यात्वदोषम्--विराधनं च प्राप्नोति, अतः स्फुटितस्य पात्रादिकस्य थिग्गलत्रयादधिकं न योजयेत्, इति ॥ सू० ४३ ॥
सूत्रम्-जे भिक्खू पायं अविहीए तुडइ तुडंतं वा साइज्जइ॥ सू०४४॥ छाया-यो भिक्षुः पात्रमविधिना स्थगति स्थगयन्तं वा स्वदते ॥ सू०४४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'पाय' पात्रम् 'अविहीए' अविधिना विध्यतिकमेण, 'तुडइ' स्थगयति -युनक्ति 'तुडतं वा साइज्जई' स्थगयन्तं वा स्वदते, युनक्ति-योजयति--अनुमोदते वा स प्रायश्चित्तभागिति ॥ सू० ४४॥
सूत्रम्-जे भिक्खू पायं अविहीए बंधइ बंधतं वा साइज्जइ।सू०४५॥
छाया-यो भिक्षुः पात्रमविधिना बध्नाति-बध्नन्तं वा स्वदते ॥ सू० ४५॥
चूर्णी—'जे भिक्खू' इत्यादि । 'जेभिक्खू' यो भिक्षुः श्रमणः 'पायं' पात्रं तुम्बिकादिकम् 'अविहीए' अविधिना विध्यतिक्रमेण 'बंधई' बध्नाति अविधिना बन्धनं करोति कारयति । 'बंधतं वा साइज्जई' बघ्नन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्ती भवति । त्रिप्रकारके ऽलाबूपात्रादौ द्विप्रकारको बंधो भवति । तत्रैकोऽविधिबन्धो द्वितीयो विधिबन्धः । तत्राऽविधिबंधोऽयम्-"तत्र स्वस्तिकबन्धो द्विप्रकारको भवति व्यतिकलितः । इतरौ वा व्यतिकलितो समच
શ્રી નિશીથ સૂત્ર