SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १४-१७ अकुशलप्रतिसेवना ९ स्थूलवंशादिविविधवनस्पतिनिर्मितम् । एतेषामन्यतमेन यो भिक्षुः स्वयं शिक्ककं करोति, अथवा - शाक्यभिक्षुकादिभिरन्यतीर्थिकेन गृहस्थ श्रावकादिना वा कारयति, - कुर्वन्तं तमनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नुवन् प्रायश्चित्तभागी भवति ॥ सू० अथवा - १४ ॥ सूत्रम् - जे भिक्खू सोत्तियं वा रज्जुयं वा चिलमिलि वा अण्णउत्थिएण वा गारस्थिएण वा कारेइ करेंतें वा साइज्जइ || सू० १५ ॥ छाया- -यो भिक्षुः सौत्रिकां वा रज्जुकां वा चिलमिलि वा अन्ययूथिकेन वा गृहस्थेन वा कारयति कुर्वन्तं वा स्वदते ॥ सू० १५ ॥ चूर्णी - 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः श्रमणः सोत्तियं वा' सौत्रिकां वा - सूत्रभवां वा 'रज्जुयं वा' रज्जुकीं वा रज्जुः 'डोरी' लोकप्रसिद्धा तया शणकादिरज्जुभिर्वा निर्मिता ताम् 'चिलिमिलिं वा' चिलिमिलिकां वा तत्र चिलमिलिका - आहारकरणाय -शयनाय वा कल्पिता वस्त्रादिमयीजवनिका 'पडदा' इति लोकप्रसिद्धा ताम् 'अन्न उत्थिएण वा ' अन्ययूथिकेन अन्यतीर्थिकेन वा 'गारत्थि एण वा' गृहस्थेन कलत्रादिपरिवारपरिवृतश्रावकेण वा ' कारे' कारयति - स्वयं निर्माति अन्यद्वारेण वा निर्मापयति । 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुमोदते, कुर्वतोऽनुमोदनां करोति स श्रमणो लभते प्रायश्चित्तम् । भाष्यम् - सुत्तरज्जुवक्लेर्हि, दंडकडगेर्हि तहा, छाया - सूत्ररज्जुवल्कलैः, दण्ड कटकाभ्यां तथा । चिलिमिली पञ्चधा खलु कर्त्तव्याभिक्षुभिर्न सा ॥ अवचूरिः - 'सुत्तरज्जु' इत्यादि । चिलमिली शयनाहारादिकरणाय निर्मिता गृहप्रतिरूपिका जवनिका, एतादृशी चिलमिली पंचधा - पंचभिर्भेदैर्विभिन्नाः । सा साधुभिर्न करणीया तत्र पंचप्रकारान् भेदान् दर्शयति- 'सुत्ते' इत्यादि । सूत्रमयी चिलमिली प्रथमा १, तत्र सूत्रेण - कार्पासिकेन - तदन्येन वा मेषादिकेशनिर्मितेन सूत्रेण वा या कृता सा सूत्रमयी चिलमिली १ । रज्जुमयी - रज्जुनिर्मिता " दोरी" ति प्रसिद्धा द्वितीया २ । 'वक्के' ति-- वल्कलमयी, वल्कलं वृक्षत्वक् तथा निर्मिता तृतीया ३, वंशो दण्डादिः, कटकं वंशत्वक्, ताभ्यां तंशकटकाभ्यां चतुर्थी पंचमी च, एषा पञ्चप्रकारा चिलमिली साधुभिर्न कार्या || सू० १५ ।। चिलिमिली पंचहा खु कायधा भिक्खुर्हि न सा ॥ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy