SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कूणिकको श्रेणिकका परिचय ततः खलु श्रेणिको राजा कूणिकं कुमारं परशुहस्तगतमेजमानं पश्यति, दृष्ट्वा एवमवादीत् एष खलु कूणिकः कुमारः अमार्थितमार्थितो यावत् श्रीहूीपरिवर्जितः परशुहस्तगत इह हव्यमागच्छति, तन्न ज्ञायते खलु मां केनापि कुमारेण ( कुत्सितमारेण ) मारयिष्यतीति कृत्वा भीतो यावत् संजातभयस्तालपुटकं विषमास्ये प्रक्षिपति । १५३ ततः खलु स श्रेणिको राजा तालपुटकविषे आस्ये प्रक्षिप्ते सति मुहूर्त्तान्तरेण परिणम्यमाने निष्प्राणो निश्चेष्टो जीवविमत्यक्तोऽवतीर्णः । ततः खलु स कूणिकः कुमारो यत्रैव चारकशाला तत्रैवोपागतः, उपागत्य श्रेणिकं राजानं निष्प्राणं निश्रेष्टं जीवविमत्यक्तमवतीर्णं पश्यति, दृष्ट्वा महता पितृशोकेन आक्रान्तः सन् परशुनिकृत्त इव चम्पकवरपादपः 'घस' इति धरणीतले सर्वाङ्गः संनिपतितः । ततः खलु स कूणिकः कुमारो मुहूर्तान्तरेण आस्वस्थः सन् रुदन् क्रन्दन् शोचन विलपन् एवमवादीत् - अहो ! खलु मया अधन्येन अपुण्येन अकृतपुण्येन दुष्ठु कृतं श्रेणिकं राजानं प्रियं दैवतमत्यन्तस्नेहानुरागरक्तं निगडबन्धनं कुर्वता, मम मूलकं चैव खलु श्रेणिको राजा कालगतः, इति कृत्वा ईश्वर - तलवर - यावत् - सन्धिपालैः सार्द्धं संपरिवृतो रुदन् ४ ( क्रन्दन् शोचन् विलपन् ) महता ऋद्धिसत्कारसमुदयेन श्रेणिकस्य राज्ञो नीहरणं करोति, कृत्वा बहूनि लौकिकानि मृतकृत्यानि करोति । ततः खलु स कूणिकः कुमार एतेन महता मनोमानसिकेन दुःखेनाभिभूतः सन् अन्यदा कदाचित् अन्तःपुरपरिवारसंपरिवृतः सभाण्डामत्रोपकरणमादाय राजगृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव चम्पा नगरी तत्रैवोपागच्छति । तत्रापि खलु कालेन अल्पशोको जातश्चाप्यभूत् । विपुलभोगसमितिसमन्वागतः શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy