SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - सप्तमवक्षस्कार: सू० २९ चन्द्रसूर्याणां विमानवाहकदेव संख्यानि० ४७१ रेण मनोहरेण पूरयन्ति अम्बरं दिशाश्व शोभयन्ति चत्वारि देवसहस्राणि गजरूपधारिणां देवानां दाक्षिणात्यां बाहां परिवहन्तीति ॥ चन्द्रविमानस्य खलु पश्चिमायां खलु श्वेतानां सुभगानां सुप्रभाणां चल चपलककूटशा लीनां धननिचित सुबद्धलक्षणोन्नत्तेपदानत कृषोष्ठानां चंक्रमित ललित पुलकित चलचपल गर्वितगतीनां सन्नतपार्श्वानां संगतपार्श्वानां सुजातपार्श्वानां परिवर्तितसुसंस्थितकटीनाम् अवलम्ब प्रलम्ब लक्षण प्रमाणयुक्त रमणीय बालगण्डानां समखुरवालिघानानां समलिखित शृङ्गतीक्ष्णाग्रसंगतानां तनु सूक्ष्म सुजात स्निग्धलोमच्छविवराणामुपचितमांसल विशाल परिपूर्ण स्कन्धप्रदेश सुन्दराणां वैदूर्यभासमानकटाक्षसुनिरीक्षणानां युक्तप्रमाणप्रधानलक्षणप्रशस्तरमणीयगग्गर गलशोभितानां घर घर सुशब्दबद्ध कण्ठपरिमण्डितानां नानामणिकनकरत्नघटिका वैकक्षिक सुकृतमालिकानां वर घण्टा गलकमालोज्ज्वलश्रीपराणां पद्मोत्पल सकलसुरभिमालाविभूषितानां वज्रखुराणां विविधविखुराणां स्फटिकमयदन्तानां तपनीयजिह्नानां तपनीयतालुकानां तपनीय योत्रकसुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममिततीनाम् अमित बलवीर्य पुरुषकारपराक्रमाणां महता गर्जितगम्भीररवेण मधुरेण मनोहरेण पूरयन्ति अम्बरदिशाश्व शोभयन्ति चत्वारि देव सहस्राणि वृषभरूपधारिणां देवानाम्, पाश्चात्यां बाहां परिवहन्तीति चन्द्रविमानस्य खलु उत्तरेण श्वेतानां सुभगानां सुप्रमाणां तरी मल्लिहायनानां हरिमेलक मल्लिकाक्षाणां चंचुरित ललित पुलकित चलचपल चञ्चलगतीनां लङ्घनवल्गनधान धोरण त्रिपदी जयिनी शिक्षितगतीनां ललंतलामंगल गतवरभूषणानां सम्न्नतपार्श्वानां सङ्गतपार्श्वानां पोवरवर्तितसुसंस्थितकटीनाम्, अवलम्ब प्रलम्बलक्षणप्रमाणयुक्त रमणीय बालपुच्छानाम्, तनु सूक्ष्मसुजात स्निग्धलोमच्छ विधराणाम् मृदुविशदसूक्ष्मलक्षणमशस्त विस्तीर्ण केशर वालधरणाम्, ललन्त थासमललाट वरभूषणानाम् मुखमण्डका चूलकचामर थासक परिमण्डित कटीनाम्, तपनीयखुराणाम् तपनीयजिद्दानां तपनीयतालुकानां तपनीय योत्रक सुयोजितानां कामगमानां प्रीतिगमानां मनोगमानां मनोरमाणाममितगतीनाम् अमितबलवीर्यपुरुषकारपराक्रमाणाम् महता हयषित किलकिलायितरवेण मनोहरेण पूरयन्ति अम्बरदिशाश्च शोभयन्ति चत्वारि देव सहस्राणि हयरूपधारिणरां देवानामुत्तां वाहां परिवहन्तीति । गाथा - षोडश देव सहस्राणि भवन्ति चन्द्रेषु चैव सूर्येषु । अष्टावेव सहस्राणि एकैकस्मिन् ग्रहविमाने ॥१॥ चत्वारि सहस्राणि नक्षत्रं च भवन्ति एकैकस्मिन् । द्वे चैव सहस्रे तारारूपे एकैकस्मिन् ||२|| एवं सूर्यविमानानां यावत् तारारूपविमानानाम् नवरमेष देवसंधात इति ॥ २९ ॥ टीका- 'चंद विमाणे णं भंते' चन्द्रविमानं खलु भदन्त ! 'कइदेवसाहस्सीओ परिवर्हति' कति - कियत्संख्यकानि देव सहस्राणि तत्र देवानामाभियोगिकदेवानां सहस्राणि परिवर्हति જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy