________________
प्रकाशिका टीका - सप्तमवक्षस्कार: सू० १८ एकस्मिन्संवत्सरे माससंख्या निरूपणम् २९१ |२|| एकैकस्य खलु भदन्त ! मासस्य कतिपक्षाः प्रज्ञप्ताः ? गौतम ! द्वौ पक्षौ प्रज्ञप्तौ तद्यथाबहुलपक्षश्च शुक्लपक्षश्च । एकैकस्य खलु भदन्त ! पक्षस्य कति दिवसाः प्रज्ञप्ताः ? गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, तद्यथा - प्रतिपदिवसो द्वितीया दिवसो यावत्पञ्चदशी दिवस: 'एतेषां खलु भदन्त ! पञ्चदशानां दिवसानां कतिनामधेयानि प्रज्ञप्तानि ? गौतम ! पञ्चदशनामधेयानि प्रज्ञप्तानि तद्यथा- पूर्वाङ्गः सिद्धमनोरमश्च ततो मनोहरश्चैव । यशोभद्रश्च यशोधरः षष्ठः सर्वकामसमृद्धश्च ॥ १ इन्द्रमूर्धाभिषिक्तश्च सौमनसो धनञ्जयश्च बोद्धव्यः । अर्थसिद्धोऽभि जातोऽत्यशनः शतञ्जयश्चैव || २ || अग्निवेश्म उपशमो दिवसानां भवन्ति नामधेयानि । एतेषां खल्ल भदन्त ! पञ्चदशानां दिवसानां कति तिथयः प्रज्ञप्ता: ? हे गौतम! पञ्चदशतिथयः प्रज्ञप्ताः तद्यथा-नन्दाभद्रा जयातुच्छा पूर्णायक्षस्य पञ्चमी । पुनरपि नन्दाभद्रा जयातुच्छा पूर्णापक्षस्य दशमी | पुनरपि नन्दाभद्रा जयातुच्छा पूर्णापक्षस्य पञ्चदशी । एवं ता स्त्रिगुणाः तिथयः सर्वेषां दिवसानामिति । एकैकस्य खलु भदन्त ! पक्षस्य कति रात्रयः प्रज्ञप्ताः ? गौतम ! पञ्चदशरात्रयः प्रज्ञप्ताः तद्यथा- प्रतिपद्रात्रियवत्पञ्चदशीरात्रिः । एतासां खलु भदन्त ! रात्रीणां पञ्च दशानां कतिनामधेयानि प्रज्ञप्तानि ? गौतम ! पञ्चदशनामधेयानि प्रज्ञप्तानि तद्यथा-उत्तमा च सुनक्षत्रा एलापत्या यशोधरा । सौमनता चैव तथा श्रीसंभूता च बोद्धव्या ॥१॥ विजया वैजयन्ती च जयन्ती अपराजिता, चेच्छा च समाहारा तेजाश्च तथा अतितेजाः || २ || देवानन्दा निरतिः रजनीनां नामधेयानि । एतासां खलु भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ताः गौतम ! पञ्चदशतिथयः प्रज्ञप्ताः, तद्यथा - उग्रवती भोगवती यशोमती शुभनामा पुनरपि उग्रवती भोगवती यशोमती शुभनामा, पुनरपि उग्रवती भोगवती यशोमती सर्वसिद्धा शुभनामा, एवं त्रिगुणास्तिथयः सर्वासां रात्रीणाम् । एकैकस्य खलु भदन्त ! अहो रात्रस्य कतिमुहूर्त्ताः प्रज्ञप्ताः गौतम ! त्रिंशन्मुहूर्त्ताः प्रज्ञप्ताः तद्यथा रुद्रः श्रेयान् मित्रोबायुः सुप्रीतस्तथैवाभिचन्द्रः । माहेन्द्रो बलवान् ब्रह्मा बहुसत्यश्चैवेशानः ॥ १॥ त्वष्टा च भावितात्मा वैश्रमणो वारुणवानन्दः । विजयश्च विश्वसेनः प्राजापत्य उपशमश्चैव २॥ गन्धर्वोऽग्निवेश्म शत वृषभ आतपवानममश्च । ऋणवान् भौमो वृषभः सर्वार्थः राक्षस चैव ॥ इति ।। सू० १८ ॥
टीका - ' एगमेगस्स णं भंते ! संवच्छरस्स' एकैकस्य खलु भदन्त ! सवत्सरस्य चान्द्रादि वर्षस्य 'कइमासा पन्नत्ता' कति कियत्संख्यकाः मासाः प्रज्ञप्ताः कथिताः, हे भदन्त ! योऽयसंवत्सरो में मासों का प्रतिपादन
'एग मेस्सणं भंते! संवच्छरस्स कइ मासा पन्नत्ता' इत्यादि
टीकार्थ - इस सूत्र द्वारा गौतमस्वामी ने प्रभु से ऐसा पूछा है कि हे भदन्त एक एक संवत्सर के चान्द्रादि वर्ष के कितने कितने महिने होते हैं ? इसके उत्तर
સંવત્સરીમાં માસાનું પ્રતિપાદન
'एगमेगस्स णं भंते ! संवच्छररस कइ मासा पन्नत्ता' इत्यादि
ટીકા-આ સૂત્ર વડે ગૌતમસ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે કે હે ભદંત !
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર