________________
७३८
जम्बूद्वीपप्रज्ञप्तिसूत्रे वाणमंतरजोइसवेमाणिया देवा भगवओ तित्थयरस्स जम्मणमहिम करेंति करित्ता जेणेव गंदीसरदीवे तेणेव उवागच्छंति उवागच्छित्ता अट्राहियाओ महामहिमाओ करेंति करित्ता जामेव दिसिं पाउभूआ तामेव दिसिं पडिगया ॥सू० १२॥
छाया-ततः खलु स शक्रोदेवेन्द्रो देवराजः पञ्चशक्रान् विकुर्वति विकुर्विता एकः शक्रः भगवन्तं तीर्थङ्करं करतलपुटेन गृह्णति एकः शक्रः, आतपत्रं धरति द्वौ शक्रौ उभयोः पार्श्वयोः चामरोल्क्षेपं कुरुतः, एकः शक्रो वज्रपाणिः पुरतः प्रकर्षति ततः खलु स शक्रः चतुरशीत्या सामानिक सहर्यावदन्यैश्च भवनपति वानव्यन्तरज्योतिष्कवैमानिकैः देवैर्देवीभिश्च सार्द्धसंपरिवृत्तः, सर्वद्धर्या यावन्नादितरवेण तया उत्कृष्टया यत्रैव भगवतस्तीर्थङ्करस्य जन्मनगरं यत्रैव च जन्मभवनं यत्रैव तीर्थकरमाता तत्रोपागच्छति उपागत्य भगवन्तं तीर्थङ्करं मातुः पार्श्व स्थापयति स्थापयित्वा तीर्थङ्करप्रतिरूपकं प्रतिसंहरति प्रतिसंहृत्य एकं महत् क्षोमयुगलं कुण्डलयुगलं च भगवतस्तीर्थङ्करस्य उच्छीर्षकमूले स्थापयति स्थापयित्वा एकं महान्तं श्रीदामगण्डं श्रीदामकाण्डं वा तपनीयलम्बूषकं सुवर्णप्रतरकमण्डितं नानामणिरत्नविविधहाराहारोपशोभितसमुदयं भगवतस्तीर्थङ्करस्य उल्लोचे निक्षिपति तं खलु भगवान् तीर्थङ्करः, अनिमि. षया दृष्टया पश्यन् सुखं सुखेन अभिरममाणस्तिष्टतिः ततः खलु स शक्रो देवेन्द्रो देवराजो वैश्रमण देवं शब्दयति शब्दयिखा एवमवादीत् क्षिप्रमेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटी द्वात्रिंशतं सुवर्ण कोटीः द्वात्रिंशतं नन्दानि द्वात्रिंशतं भद्राणि सुभगानि सुभगरूप यौवन लाव. ण्यानि च भगवतस्तीर्थङ्करस्य जन्मभवने संहर संहत्य एतामाज्ञप्तिकां प्रत्यर्पय । ततः खल श्रमणो देवः, शक्रेण यावत्-विनयेन वचन प्रतिशृणोति प्रतिश्रुत्य जृम्भकान देवान् शब्दयति शब्दयित्वा एव मवादीत् क्षिप्रमेव भो देवानुप्रियाः ! द्वात्रिंशतं हिरण्यकोटी:, याव. दभगवतस्तीर्थङ्करस्य जन्मभवने संहरत संहृत्य एतामाज्ञप्तिका प्रत्यपयत । ततः खलु ते जम्भकादेवा वैश्रमणेन देवेन एवमुक्ताः सन्तो हृष्ट तुष्ट यावक्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी: यावत्-च भगवतस्तीर्थङ्करस्य जन्मभवने संहरन्ति संहृत्य यत्रैव वैश्रमणो देवः, तत्रैव यावत् प्रत्यर्पयति । ततः खलु स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यावत् प्रत्यर्पयति, ततः खलु स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् देवान् शब्दयति शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रियाः ! भगवतस्तीर्थंकरस्य जन्मनगरे श्रृङ्गाटक यावन्महापथपथेषु महता शब्देन उदघोषयन्त एवं वदत हन्त ? श्रृण्वन्तु भवन्तो बहवो भवनपति वानव्यन्तरज्योतिष्कवैमानिका देवा देव्यश्च यः खलु देवानुप्रिया ! तीर्थङ्करस्य तीर्थङ्करमातुर्वा अशुभं मनः, प्रधारयति तस्य खल आर्यक मञ्जरिकेव शतधा मूनि स्फुटतु इति कृत्वा घोषणं घोषयत घोषयित्वा एतामाज्ञप्तिका प्रत्यर्पयत इति । ततः खलु ते आभियोगिका देवा यावत् एवं देव इति आज्ञायाः प्रतिश्रृण्वन्ति प्रतिश्रुत्य शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकात् प्रति
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર