________________
६२
जम्बूद्वीपप्रज्ञप्तिसूत्रे
ल्येन - स्थौल्येन गङ्गा - जिह्निकातः अस्या द्विगुणत्वात्, 'मगरमुह विउद्वसंठाणसंठिया सव्ववइरामई' मकरमुखविवृतसंस्थान - संस्थिता - मकर मुखमिव विवृतं विदीर्ण यत्स्थानम् - आकारविशेषस्तेन - संस्थिता, सर्ववज्रमयी 'अच्छा रोहियंसा महाणई जहिं पवडई' अच्छा - स्वच्छा रोहितांसा महानदी यत्र प्रपतति, अथ कुण्डस्वरूपमाह - 'एत्थणं महं एगे -रोहियंसा पवायकुडे णाम कुडे पण्णत्ते' अत्र खलु स्थाने महदेकं रोहितांसा प्रपातकुण्डं नाम कुण्डं प्रज्ञप्तम्, 'सवीसं जोयणसयं आयाम विक्खंभेण' तत् कुण्डं विंशम् - विंशत्यधिकं योजनशतम् आयाम विष्कम्भाभ्यां दैर्घ्यविस्ताराभ्याम् गङ्गाप्रपातकुण्डतोऽस्य द्विगुणत्वात् 'तिष्णि असीए जोयree किंचि विसे परिकखेवेणं' त्रीणि योजनशतानि अशीतानि अशीत्यधिकानि किश्चिद्विशेषोनानि परिक्षेपेण-परिधिना - परिवेष्टनेन 'दसजोयणाई उच्वेहेणं' दशयोजनानि उद्वेधेन - गंभीरेण ' अच्छकुंड - बण्णओ जाव तोरणा ' अच्छम् ; कुण्डवर्णकः - कुण्डस्य वर्णनं यावत्तोरणानि तोरणपर्यन्तं वक्तव्यम् । अथात्र द्वीपमाह - 'तस्स णं रोहियंसा पवायकु डस्स बहुमज्झ देसभाए एत्थ णं महं एगे रोहियंसा णामं दीवे पण्णत्ते' तस्य खलु रोहितांसा प्रपातकुण्डस्य बहुमध्यदेश भागे, अत्र खलु -स्थाने महान् एको रोहितांसो नाम द्वीपः प्रज्ञप्तः कथितः, 'सोलस जोयणाई आयाम विक्खंभेणं' स च द्वीपः षोडशयोजनानि आयामविष्कम्भाभ्यांदैर्घ्यविस्ताराभ्याम्, 'साइरेगाई पण्णासं जोयणाई परिक्खेवेणं' सातिरेकाणि पञ्चाशतं योजनानि परिक्षेपेण-परिधिना, दो कोसे ऊसिए जलंताओ' द्वौ क्रोशौ उच्छ्रितो जला - न्तात् - जलपर्यन्तात् क्रोशद्वयमूर्ध्वं गतः स द्वीपः 'सव्वरयणामए अच्छे सहे . सेसं तं चैव जाव भवणं अट्ठो य भाणियच्वो त्ति' सर्वरत्नमयः अच्छः श्लक्ष्णः - शेषं तदेव यावद् भवनम् अर्थश्च भणितव्य इति, सम्प्रति अस्या नद्याः येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यावांच नदी परिवारो यत्र च संक्रमस्तथाऽऽह - 'तस्स णं' इत्यादि । ' तस्स णं रोहियंसाप्पवायकु डस्स उत्तरिल्लेणं तोरणेणं' तस्य खलु रोहितांशाप्रपातकुण्डस्य औत्तराहेणउतरदिग्भवेन तोरणेन - वहिर्द्वारेण, 'रोहियंसा महाणईपवूढा समाणी' रोहितांसा महानदी प्रव्यूढा - निर्गता सती 'हेमवयं वासं एज्जमाणी २' हैमवतं वर्षम् इर्यती२ गच्छन्ती २ ' उसहि सलिलासहस्सेहि आपूरेमाणी २' चतुर्दशभिः सलिलासहस्रैः - नदीसह स्त्रैरापूर्यमाणार साववट्टवेयपथ्वयं अद्ध जोयणेणं असंपत्ता समाणी' शब्दापाति नामानं वृत्तत्रैतादचपर्वतम् अर्द्ध योजनेनासम्प्राप्ता सती ' पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २' पश्चिमाभिमुखी आवृत्ता - परावृत्ता सती हैमवतं वर्ष द्विधा विभजमाना २ 'अट्ठावीसाए सलिला सहस्सेहिं समग्गा' अष्टाविंशत्या सलिलासहस्रैः नदीसहस्रैः समग्रापरिपूर्णा सती 'अहे जग दालइत्ता पच्चत्थिमेणं लवणसमुद्दे समप्पेइ' जगतीम् अधो दारयिस्वा भित्वा पश्चिमे लवणसमुद्रं समर्पयति--प्रविशतीत्यर्थः, अस्या एव मूलविस्ताराद्याह - 'रोहियंसा णं पवहे अद्धतेरस जोयणाई विक्खभेग कोसं उब्वेहेणं' रोहितांसा नाम्नी नदी खलु प्रवहे - प्रवहति यस्मादिति प्रवहस्तस्मिन् मूले अर्द्धत्रयोदश योजनानि - सार्द्धद्वादशयोजनानि
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર