SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ ७१४ जम्बूद्वीपप्रज्ञप्तिसूत्रे स्तेषां पल्लवाः नवकिसलयानि ततस्ते यथा मन्दमारुतैः प्रेरिताः सन्तो नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम नाटयम् ॥२०॥ अयैकविंशतितमम्-पद्मनागाशोकचम्पकचतवनवासन्ती कुन्दातिमुक्तिकशामलताप्रविभक्तिकं लता प्रविभक्तिकं नाम नाटयम् इह येषां वनस्पतिकायिकानां स्कन्धदेशविवक्षितोवंगतैकशाखाव्यतिरेकेणान्यत् शाखान्तरं परिस्थूलं न निर्गच्छति ते लता विज्ञेयाः, ते च पद्मादय इति पद्मादि श्यामान्ताः या लतास्तत्प्रविभक्तिकं लताप्रविभक्तिकम्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लता प्रविभक्तिनाम नाटयम् ॥२१॥ अथ द्वाविंशतितमम् द्रुत नामनाटकम्-तत्र द्रुतमिति शीघ्रं गीतवाद्यशब्दयो. यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाटयम् ॥२२॥ __अथ त्रयो विंशतितमं विलम्बितं नाम नाटयम् यत्र विलम्बिते गीतशब्दे स्वरघोलना प्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नत्तनं तद्विलम्बितं नाम नाटयम् ॥२३॥ ___ अथ चतुर्विंशतितम् द्रुतविलम्बितं नाम नाटयम् यथोक्तप्रकारद्वयेन नर्तनम् ॥२४॥ अथ पञ्चविंशतितमम्-अश्चितं नाम नाट्यम् अश्चितः पुष्पाद्यलङ्कारैः पूजितस्तदीयं तदभि. नयपूर्वकं नाटयमपि अञ्चितमुच्यते । अनेन कौशिकी वृत्तिप्रधानाहार्याभिनयपूर्वकं नाटयम् सूचितम् ॥२५॥ अथ षट् विंशतितमं-रिभितं नाम नाटयम् तच्च मृदुपदसंचाररूपमिति वृद्धाः ॥२६|| अथ सप्तविंशतितमम्-अञ्चितरिभितं नाम नाटयम् यत्र अनन्तरोक्तमभिनय द्वयमवतरति तत् अश्चितरिभितम् ॥२७॥ अथ अष्टाविंशतिममारभटं नाम नाटयम् आरभटानाम् सोत्साहसुभटानामिदमारभटम्, अयमर्थः महाभटानां स्कन्धास्फालनहृयोल्बणनादिका या उवृत्तवृत्तिस्तदमिनयमिति, अनेन आरभटीवृत्तिप्रधानमाङ्गिकाभिनयपूर्वकं नाटयमुक्तम् ॥२८॥ अथैकोनविंशतितमम् भसोलं नाम नाट्यम् भत् भर्त्सन दीप्त्योरित्यस्माद्धातोजिस प्रकार से इन वृक्ष विशेषों के पत्र-नवकिसलय- मन्दमारुत से कंपित होकर हिलते हैं इसी तरह से इस नाट्य में नाटयकरने वाले अभिनय करते हैं। २१वां नाटय लताप्रविभक्ति नामका है इसमें पद्मनाग, अशोक, चम्पक आदि लताओं के जैसे अभिनय किया जाता है २२ वां नाटय द्रत नामका है २३ वां नाट्य विलम्बित नामका है २४ वां द्रुतविलम्बित नामका है २५ वां नाट्य अंचित नामका है २६ वां नाट्य रिभित नामका है २७ व नाटय अंचितरिभित नामका है । २८ वां नाटय आरभट नामका है २९ वां नाटय भसोल नामका है ३० वां એ વૃક્ષ વિશેના પગે, નવ કિસલય–મન્દ પવનથી કંપિત થઈને હાલે છે, તે પ્રમાણે જ આ નાટ્યમાં નાટય કરનાર અભિનય કરે છે. ૨૧મું નાટ્ય લતા પ્રવિભક્તિ નામક છે. એમાં પદ્મનાગ, અશેક, ચંપક, વગેરે લતાઓ જે અભિનય કરવામાં આવે છે. ૨૨મું નાટય દુત વિલંબિત નામક છે. ૨૫મું નાટય અંચિત નામક છે. ૨૬મું નાટય રિભિત નામક છે. ૨૭મું નાટ્યૂય અંચિત વિભિત નામક છે. ૨૮ મું નાટય આરભટનામક છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy