SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ ७०८ जम्बूद्वीपप्रज्ञप्तिसूत्रे वाचनिकेन प्रबन्धादौ तत्तन् मङ्गलोच्चारणम् सभासदां जनानां मनसि आसक्तिपूर्वकं तत्तस्मगलस्वरूपाविभोवन मङ्गलनाटयमिति प्रथमम् १ ।। ___ अथ द्वितीयं नाटयम् आवर्त्तप्रत्यावर्त्तश्रेणि प्रश्रेणि स्वस्तिक पुष्यमाणवर्द्धमानकमत्स्याण्डक मकराण्डक जारमार पुष्पावलि पद्मपत्रसागरतरङ्गवासन्तोलता पद्मलता भक्तिचित्रम् तत्र आवर्तः भ्रमद् भ्रमरिकादानैर्नर्तनम् प्रत्यावर्तः तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्तनम् श्रेणिप्रश्रेणिस्वस्तिकाः, श्रेण्या पंक्त्या स्वस्तिकाः श्रेणिस्वस्तिकाः ते चैव पङ्क्तिगता अपि स्युरित्यत आहप्रश्रेणि स्वस्तिका इति अनुवृताः श्रेणिस्वस्तिकाः, प्रश्रेणिस्वस्तिकाः, अत्र प्रशब्दोऽनुवृत्तार्थ यथा प्रशिष्यः प्रपुत्र इत्यादौ अयमर्थः, मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशाखं गता अन्ये स्वस्तिका इति, एतेन प्रथमनाटयगतस्वस्तिक नाटयात् भेदो दर्शितः, तदभिनयेन नर्तनम् तथा पुष्यमाणाः पुष्टीभवनम् तदभिनयेन नृत्यम् यथाहि पुष्टो गच्छन् जल्पन् श्वसिति बहु बहु प्रस्विद्यति दारुहस्तप्रायौ स्वहस्तौ अतिमेदस्विनौ चालयन २ सभासदां जनानामुपहासपात्रं भवति, तथैव अभिनयो यत्र नाटये तत्पुष्यमाणनाट्यम्, अनेन अर्थेन प्रथमनाटयगतवर्द्धमाननाटयाइँदो दर्शितः, तथा मत्स्याण्डकम् मत्स्यानामण्डकं मत्स्याण्डकम्' मत्स्याहि अण्डाज्जायन्ते तदाकारकरणेन यनर्तनं तन्मत्स्याण्डकनाटयम् एवं मकराण्डकमपि नहि यथाकामविकुर्विणां देवानां किश्चिदसाध्यं नाटये नचानभिनेतव्यं येन तदभिनयो न सम्भवेदिति मत्स्यकाण्डपाठेतु मत्स्यकाण्डं मत्स्यवृन्दम् तद्धि सह जातीयैः सह मिलितमेव जलाशये प्रचलति एकत्र सञ्चरणशील वात् तथा यत्र नटोऽन्यनटैः सह सङ्गतो रङ्गभूमौ प्रविशति ततो वा निर्गच्छति तन्मत्स्यकाण्डनाटम्-एवं मकरकाण्डपाठे मकरवृन्दं वाच्यम् तद्धि यथाविकृतरूपवत्वेन अतीव द्रष्ट्रणां जनानां भयानकं भवति तथैव तनाटयम् तदाकारदर्शनेन भयानकं स्यात् तद्भयानकरसप्रधानं मकरकाण्डं नाम नाटकम् तथा जार नाटकम् जारः उपपतिः स च यथा स्वेन साढे रममाणाभिः पराभि अपि स्त्रीभिः अतिरहस्येव रक्ष्यते तद्वद यत्र थूलवस्तु निरोधनात्तत्तदिन्द्रनालाविर्भावनेन सभासदां मनसि अन्यदेव अवतार्यते तज्जारनीमकं नाट्यम् तथा मारनाटकम्- मारः, कामस्तदुद्दीपकं नाटकं मारनाटकम् श्रृङ्गाररसप्रधानमित्यर्थः, तथा पुष्पावलि नाटयं यत्र कुसुमापूर्णवंशसलाकादि दर्शनेन अभिनयस्तत्पु. मङ्गलाकाररूप से अवस्थित होना हस्तादि द्वारा तत्तत् आकारों का दिखाना, वाचिक भेद द्वारा प्रबन्धादि में उन २ माङ्गलिक शब्दों का उच्चारण करना एवं सभासदों के मनमें आसक्तिपूर्वक उस उस मंगल स्वरूप का आविर्भाव करना यह मंगल नाटय है आवते, प्रत्यावते श्रेणि स्वतिक प्रश्रेणि, स्वस्तिक, पुष्यमाण, वर्द्धमानक, मत्स्याण्डक, मकराण्डक जार मार पुष्पावलि, पद्मपत्र, પ્રબંધાદિમાં તત્ તત્ માંગલિક શબ્દોનું ઉચ્ચારણ કરવું તેમજ સભાસદેના મનમાં આસક્તિ પૂર્વક તે મંગલ સ્વરૂપને પ્રકત્રિત કરવું, આ મંગળ નાય છે. આવર્ત, પ્રત્યાવર્ત, શ્રેણિ, સ્વસ્તિક, પ્રશ્રેણિ, સ્વસ્તિક, પુષ્યમાણ, વદ્ધમાનક, મમ્હાંડક, મકરાંડક, જાર માર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006355
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages806
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy