________________
जम्बूद्वीपप्रज्ञप्तिसूत्रे सर्वदर्या यावत् दूरुढाः सन्तः मार्गतश्च यावत् संप्रस्थिताः । ततः खलु स शक्रः तेन पश्चानीकपरिक्षिप्तेन यावत् महेन्द्रध्वजेन पूरतः प्रकृष्यमाणेन चतुरशीत्या सामानिकसहस्त्रैः यावत् परिवृतः सर्वद्धर्या यावत् रवेण सौधर्मस्य कल्पस्य मध्यं मध्येन तां दिव्यां देवर्द्धिम् यावत् उपदर्शयन् उपदर्शयन् यत्रैव सौधर्मस्य कल्पस्य औत्तरा निर्याणमार्गः तत्रैव उपागच्छति उपागत्य योजनशतसाहस्त्रिकैः विग्रहैः, अवपतन् अवपतन् तया उत्कृष्टया यावत् देवगत्या व्यतिव्रजन् व्यतिव्रजन् तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन यत्रैव नन्दीश्वरद्वीपः यत्रैव दक्षिणपूर्वः रतिकरपर्वतः तत्रैव उपागच्छति, उपागत्य एवं चैव सूर्याभस्य वक्तव्यता नवरं शक्राधिकारी वक्तव्य इति यावत् तां दिव्यां देवर्द्धिम् यावत् दिव्यं यानविमानं प्रतिसंहरन् प्रतिसंहरन् यावत् यत्रैव भगवतः तीर्थक्करस्य जन्मनगरं यत्रैव भगवत स्तीर्थङ्करस्य जन्मभवनं तत्रैव उपागच्छति उपागत्य भगवतस्तीर्थकरस्य जन्मभवनं तेन दिव्येन यानविमानेन त्रिः कृत्वः आदक्षिणप्रदक्षिणं करोति कृत्वा भगवतः, तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये दिग्रभागे चतुरङ्गुलमसंप्राप्तं धरणितले तं दिव्यं यानविमान स्थापयति स्थापयित्वा अष्टभिः अग्रमहिषीभिः द्वाभ्यामनीकाभ्यां गन्धर्वानीकेन च नाट यानीकेन च सार्द्ध तस्मात् दिव्यात् यानविमानात पौरस्त्येन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति, ततः खलु शक्रस्य देवेन्द्रस्य देवराजस्य चतुरशीतिः सामानिकसहस्राणि दिव्याद् यानविमानात् उत्तरेण त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति अवशेषा देवाश्च देव्यश्च तस्मात् दिव्यात् यानविमानात् दक्षिणेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहन्ति इति ततः खलु स शक्रो देवेन्द्रो देवराजः, चतुरशीत्या सामानिकसाहस्त्रिकैः, यावत्साई संपरिवृतः सर्वद्धर्या यावत् दुन्दुभिनिघोंषनादितरवेण यत्रैव भगवान् तीर्थङ्करः, तीर्थकरमाता च तत्रैव उपागच्छति उपागत्य, आलोके एव प्रणाम करोति प्रणामं कृत्वा भगवन्तं तीथेकरं तीर्थकरमातरं च त्रिः कृत्वः आदिक्षणप्रदक्षिणं करोति, कृत्वा करतल यावदेवमवादीत् नमोऽस्तु ते रत्नकुक्षिधरिके ! एवं यथा दिक्कुमार्य: यावत् धन्याऽसि पुण्यासि त्वं कृतार्थाऽसि, अहं खलु देवानुप्रिये ! शक्रो नाम देवेन्द्रो देवराजो भगवस्तीर्थकरस्य जन्ममहिमानं करिष्यामि तत् खलु युष्माभिन भेतव्यमितिकृत्वा अवस्वापिनी ददाति दत्वा तीर्थकरप्रतिरूपकं करोति तीर्थकरमातुः पार्थे स्थापयति स्थापयित्वा पञ्चशकान् विकुर्वति, विकुर्प, एकः शक्रो भगवन्तं तीर्थकरं करतलपुटेन गृहाति, एकः शक्रः पृष्टतः आतपत्रं धरति द्वौं शक्रो उभयोः पार्श्वयोश्वामरोक्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षयति । ततः खलु स शक्रो देवेन्द्रो देवराजः अन्यैः बहुभिः भवनपतिवानमन्तरज्योतिष्कवैमानिकैः देवे देवीभिश्च साई संपरिवृतः सर्वद्धर्या यावत् नादितेन तया उत्कृष्टया यावत् व्यतिव्रजन व्यतिव्रजन् यत्रैव मन्दरः पर्वतः यत्रैव पण्डुकवनम यत्रैव अभिषेकशिला यत्रैव अभिषेकसिंहासनम् तत्रैव उपागच्छति उपागत्य सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः । इति ॥ सू. ६॥
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર